________________
(३८)
प्रमाणनयतत्त्वालोके
क्रमश्च यद् यदावश्यकतया प्रतिभातं तत् तदत्र यथास्थानं नियो
जितम् ।
अस्य ग्रन्थस्य सम्पादने प्रस्तावना दिलेखने वा मया ये ये ग्रन्था उपयुक्तास्तेषां ग्रन्थकारेभ्यः प्रकाशकेभ्यो हस्तपुस्तकदायकेभ्यश्च नैकशो धन्यवादान् वितरामि । सम्पूर्णेऽप्यत्र ग्रन्ये मम प्रमादाद्, मुद्रकाज्ञानदोषाद् वा यत् किञ्चित् स्खलनं दृश्येत तत् शुभवद्भिर्भवद्भिः संशोध्य क्षन्तव्योऽयंः जनः सूचयितव्यश्चेत्यभ्यर्थयते ।
ग्रन्येऽत्र बुद्धिदोषाद् वा दृष्टिदोषात् त्वरात्वतः । स्खलितं दृश्यते यच्चेत् तच्छोध्यं धीधनैर्जनैः ॥ १ ॥
उज्जयिन्याम्,
विदुषां वशंवदः
श्रावण शुक्ला ८,
धर्मसंवत् १० ।
मुनिहिमांशुविजयः ( अनेकान्ती )