SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । (३७) ससूत्रटिप्पणीसम्पादनम् प्रस्तुतटिप्पणीयुक्तस्य प्रमाण-नयतत्त्वालोकस्य सम्पादने व्याख्यातृचूडामणिभिः सूरीश्वरसम्राट्प्रभृतिलेखकैः ‘प्राचीनलेखसंग्रहविजयधर्मसूरिस्मारकग्रन्थ 'प्रभृतिग्रन्थसम्पादकैः पूज्यश्रीविद्याविजयपादरहमादिष्टः । तेषामादेशमङ्गीकृत्य मयाऽस्याः बालबोधिन्याः टिप्पण्या मूलग्रन्थस्य च यथामति यथाशक्ति च संशोधनं सम्पादनं च कृतमस्ति, अतस्तेषामनुग्रहं मन्ये । अत्राऽऽवृत्तौ मूलसूत्राणि तु श्रीरत्नाकरावतारिकास्थमूलसूत्रपाठानुसारेण संगृह्य संपादितानि । पूर्वमुद्रितमूलसूत्रग्रन्थे स्याद्वादरत्नाकरान्तरमुद्रितसूत्रेषु च प्रायः प्रत्येकसूत्रप्रान्ते “इति" इति पदं मुद्रितं दृश्यते, परन्तु विचार्यमाणायां सूत्रपद्धत्यां मुद्रणपद्धत्यां च सर्वत्र "इति" इति पदं निरर्थकमसुन्दरं च प्रतिभाति । केषुचिद् मुद्रितपुस्तकेषु च सर्वत्र “इति" पदस्यानुपलब्धेरस्माभिर्नात्र तत् सम्पादितम् । यत्र तु रत्नाकरावतारिकायामावश्यकत्वाद् वर्तते तत्तु अस्मिन् संपादनेऽपि "मुद्रितमेव यथास्थानम् । पिपठिषूणां यथावश्यकं च तत्र तत्र स्थले पत्राधोभागेऽस्माभिः टिप्पणानि संदृब्धानि । आग्रास्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य हस्तलिखितपुस्तकद्वयात् पाठान्तराणि, "विषयानु ६३. यथा-'प्रमाणनयतत्वव्यवस्थापनार्थमिदमुपक्रम्यते इति । ॥ १-१ ॥ सपरव्यवसायिज्ञानं प्रमाणमिति ॥ २ ॥ इत्यादि । ६१. यथा परि० ४-२१, ५० ६-३६, परि० ७.१२.। ६५. अनुकमसंख्या (न) २५०२, एकादशपृष्ठात्कं पुस्तकं क संज्ञकम् । अनुक्रमसंख्या (नं.) २०५०३ सप्तपृष्ठात्मकं पुस्तकं व संज्ञकम् ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy