SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ (३६) प्रमाणनयतत्त्वालोके वादिदेवसरिनिर्वाणम् एवं वादोपदेशशक्त्या चेतस्विचेतश्चमत्कारिपन्थरचनया गुणिगणगण्यगुणगणेन च प्राप्तपुण्ययशा देव रिभद्रेश्वरसूरये गच्छभारं समर्प्य ८३ वर्षमितमायुः संपाल्य समाधिपूर्वकं विक्रमीये १२२६ वर्षे श्रावणकृष्णसप्तम्यां तिथौ मर्त्यलोकं विहाय अमर्त्यलोकमलश्चरौकरीति स्मेति वादिदेवमूरिचरित्रसंक्षेपः । टिप्पणीपरिचयः राजकीयकलकत्ताऽऽदिमहाविद्यालयेषु ( University) M. A. परीक्षायां, न्यायप्रथमादिपरीक्षासु, अन्यासु बह्वीषु पाठशालासु च पाठ्यग्रन्थत्वेनायं ग्रन्थो निर्धारितोऽस्ति, अतः श्रीयुतपं० हरिसत्यभट्टाचार्यप्रमुखैरस्य आङ्ग्ल-गूर्जरादिभाषास्वनुवादोऽपि विहित इति श्रूयते । अयं मूलसूत्रबद्धो ग्रन्थस्तु पुरा नातिसंस्कृतोऽशुद्धश्च प्रकटीबभूव बहुकालतश्च तदनुपलब्धि ताऽतः पिपठिषूणामप्राप्योऽजनि। तस्मादस्य ग्रन्थस्योपरि संस्कृतभाषायामपि न्याय-मीमांसाधनेकदर्शनव्याप्तमेधैः शुक्लोपाहुश्रीमत्पण्डितरामगोपालाचार्यलबोधिनी नाम्नी छात्रोपयोगिनी नातिलघीयसी सरला टिप्पणी व्यरचि । अस्यां टिप्पण्यां श्रीरत्नाकरावतारिकादिग्रन्थानवलम्ब्य तैः शब्दार्थाभ्यां सूत्रार्थस्स्पष्टितः । परीक्षामुखे प्रमेयरत्नमालेव छात्रेभ्योऽवश्यमुपकरिष्यतीयमिति मे मतिः । ६२. प्रभावकच. दे० प्र० श्लो० २८३, २८१, २८७ ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy