________________
(३०)
प्रमाणनयतत्त्वालोक
वैयाकरणेन देवसूरिणा लक्षणसूत्र पुरस्सरमेते त्रयोऽपि शब्दाः संसाधिताः । उत्साहाख्येन विदुषा सभ्येनापि चैते शब्दाः पाणिनेः संमता इत्यनुमोदितम् । तेन स कुमुदचन्द्रः स्वयं निरनुयोज्यानुयोगाख्येन निग्रह - स्थानेन निगृहीतः पराजयं प्राप्यातितरां ललज्जे ।
राजा सहर्षं धन्यवादप्रदानपूर्वकदेव सूरेर्विजयमसकृत् घोषयाश्चकार । कुमुदचन्द्रस्य च देशत्यागमादिदेश । वादसमाप्त्यनन्तरं जयपत्रं (Testimony of victory ) सम्यग् लेखयित्वा स्वहस्ताक्षरैरलङ्कृत्य बहुमानपूर्वकं श्रीदेवसूरये ददौ । पारितोषिकरूपेण प्रचुरं द्रव्यं छालाप्रभृतिप्रामद्वादशकं चादिदेश, निःस्पृहत्वात् तद् द्रव्यमनिच्छति सूरौ सर्वपरामर्शेन तद्धनं जैनमन्दिरनाभेयजिनमूर्त्तिनिर्माणप्रतिष्ठायां व्ययितवान् राजा ।
अयं वादः षोडशादिवसान्ते समाप्ति प्राप्तः ।
ग्रन्थरचना
वादानन्तरं वादिदेवसूरित्वेन प्रसिद्धो देवसूरिरनुभूतं प्रचण्डतर्ककर्कशं सर्वं युक्तिजालं प्रमाणनयत्तत्त्वालोकस्य स्वोपज्ञव्याख्यारूपे चतुरशीतिसहस्रश्लोकात्म के आकरे स्याद्वादरत्नाकरे प्रन्थे लोकोपकाराय मनोज्ञभाषया विस्तरतो निबद्धवान् । तत्कालीनैस्तत्पश्चाद्भाविभिच प्रौढैरपि तार्किकैरयं ग्रन्थः मुक्तकण्ठं प्रशंसितोऽभ्यस्तश्च सानन्दम् । तदतिरिक्ता अन्येऽपि संस्कृत - प्राकृतापभ्रंशादिभाषासु देवसूरिणा बहवो
४६. प्रमेयरत्नकोटिभिः पूर्णो रत्नाकरो महान् ।
८८
<<
- रत्नप्रभसूरिः ।
स्याद्वादरत्नाकर इत्यस्ति तर्कों महत्तमः ।"
- राजशेखरसूरिः ।
·
कान्ताननेकान्तमतावलम्बिनः स्याद्वादरत्नाकर वाड्मयादिकान् ।”
- हेमविजयो गणिः ।