________________
(२९)
प्रस्तावना |
“ नारीणां विदघाति निर्वृतिपदं श्वेताम्बरप्रोन्मिषत्कीर्तिस्फति मनोहरं नयपथप्रस्तारभङ्गीगृहम् । यस्मिन् केवलिनो न निर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तजिनशासनं च भवतश्चौलुक्य ! जीयाच्चिरम् ॥ " वादारम्भः
ततः पराभवशङ्का सङ्कुलितान्तःकरणः कुमुदचन्द्रः स्वपक्षस्थापनाय स्त्रीमुक्ति के वलिभुक्ति सवस्त्रमुक्तिप्रतिषेधक पक्षोपन्यासं कृतवान् । अथ तत्पक्षस्थापनानन्तरं सभापति प्रार्थितः श्रीदेवसूरिः प्रतिवदितुमारेभे । प्रथमं तु देवसूरिणा कुमुदचन्द्रोपन्यस्तपक्षसाघनादीनि : पर्वत शिखराणीव महातार्किकशान्तिसूरिविरचितोत्तरायध्यनसूत्रवृत्तिमनुसृत्य सत्तर्ककर्कशैश्चतुरशीतिविकल्पयुक्तिजालवज्ररनेकधा खण्डितानि । अस्खलितं तं खण्डन प्रकारमवधारयितुमप्यक्षमः । संभ्रान्तचेताः कुमुदचन्द्रः "पुनरुध्यताम्” इति देवसूरिं प्रोक्तवान् | देवसूरिः सम्पूर्णमपि स्वोपन्यासं त्रिवारमा वृत्तवान् । ततः उत्तरदानेऽनुत्पन्नप्रतिभः कुमुदचन्द्रो निस्तेजाः सन् मौनं बभारः । सभापतिना सभ्यैश्व " देवसूरिणा कुमुदचन्द्रो जितः " इत्यनेकवारं हरितालापूर्वक मुद्द्द्घोषितम् ! सर्वथा परास्तोऽपि दिगम्बराचार्यः कुमुदचन्द्रः स्वकीर्तिरक्षणाय " भवदुपन्यासे प्रोक्ताः कोटाकोटि कोटिकोटि "कोटी कोटि, इति शब्दाः अशुद्धाः अतः अपशब्दाख्यनिग्रहस्थानेन निगृहीतो भवान् इत्युवाच तच्छ्रुत्वा महा
४५. प्रभावकच० मतेन कोटिकोटीशब्दोऽयम् । उत्साहस्थाने काकलस्योल्लेखो प्रबन्धचिन्तामणौ वर्तते ।
३