SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (१८) प्रमाणनयतत्त्वालोक स्वरूपभेदादिकं सविस्तरमस्मिन् प्रन्येऽतीव स्पष्टतया प्रतिपादितम्, येनाल्पमतिरपि सम्यक्तया पठितुं प्रत्यलो भवेत् । परीक्षामुखेन सह तुलनाविचारः अस्य प्रमाण- नयतत्वालोकस्य सरणिर्माणिक्यनन्दिविरचितपरीक्षामुखसदृशी प्रतिभासते । परन्तु यादृशं स्पष्टत्वं विशेषत्वं ललितपदोपन्यासत्वं च प्रमाणनयतत्त्वालोके विलोक्यते; तादृक्षं परीक्षामुखप्रन्थे न प्रेक्ष्यते । तथाहि - सन्निकर्षादिखण्डन विपर्ययादिलक्षणाऽर्वग्रहादिभेदचतुष्टयावध्यादिविकलपारमार्थिकज्ञान - चतुर्विघाऽभाव-सप्तभङ्गो-सकलादेश-विकला देश -नय- तदाभासभेदलक्ष गोदाहरण-वाद- वादि सभ्य सभापतिस्वरूपादिकं परीक्षामुखप्रन्ये न ग्रथितम् । प्रमाणनयतत्वालोके स्वेतत् सकलं समस्ति । परीक्षामुखे षट्समुद्देशेषु २१२ सूत्राणि वर्तन्ते प्रमाणनयतत्त्वालोकेऽष्टपरिच्छदेषु ३७८ सूत्राणि सूत्रितानि सन्ति । श्वेताम्बर - २६. प्रमेय रत्नमालाख्यायां परीक्षामुखटीकायां तु प्रत्यक्षस्यावप्रहादयो विकलपारमार्थिक प्रत्यक्षभेदाश्च लिखिताः । प्रमेयकमलमार्तण्डेऽप्येते प्रतिपादिताः सन्ति । ...... २७. “प्रमाणतदाभासौ . ( परीक्षामुखं ६-७३)" इत्येकेन सूत्रेण यादिप्रतिवादिविषये सूचितम् । " सम्भवदन्यद्विचारणीयमिति” ( परीक्षा ६ - ७४ ) इत्यन्तिम सूत्रेण च तत्रानुतनय-नयाभासादिविषयेऽन्यतो ज्ञेयमिति प्रेरितं परीक्षामुखकर्ता, परं न तत्र प्रन्ये सूत्रितम् ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy