________________
प्रस्तावना |
प्रमाणनयतत्वालोकाऽऽलोचना
( १७ )
प्रौढसैद्धान्तिक-तार्किक-वैयाकरण- कविचक्रवर्ति-नैकभाषा कोविदैः श्रीवादिदेवसूरिपादैरागम-"सिद्धसेन- हरिभद्राचार्यादिग्रन्थानभ्यस्य, दुर्वा - दिवादश्च निरस्य, तीर्थ पतिमुपास्य प्रमाणनयतत्त्वालोकाख्योऽयं ग्रन्थो जग्रन्थे । अत्र ग्रन्थे पूर्व भूरिसूरिरीतिमनुसृत्य प्रत्यक्ष-परोक्षलक्षणं प्रमाणस्य द्वैविध्यं प्ररूपितम् । प्रत्यक्षस्य तावत् सांव्यवहारिक - पारमार्थिकौ भेदौ प्रदर्श्य सांव्यवहारिकप्रत्यक्षस्येन्द्रियानिन्द्रियनिबन्धनाद् द्वौ प्रकारौ प्रदर्शितौ । इन्द्रियानिन्द्रिययोश्चैकशोऽवग्रहादिभेदेन चतुःप्रकारत्वमुल्लिखितम् । पारमार्थिकप्रत्यक्षस्य चागमतर्कपद्धतिसंमताऽवधि-मनःपर्याय- केवलज्ञानभेदतः त्रैविध्यं समर्थितम् । परोक्षस्य स्मरण- प्रत्यभिज्ञान-तर्कानुमानागमभेदैः पञ्चविधत्वमुक्तम् । प्रत्यक्षानुमानयोः स्वार्थपरार्थता च सिद्धसेनदिवाकरादिवत् साधिता ।
.२५
श्रीवादिदेवसूरि समयपर्यन्तं प्रमाण- नयादिविषये दार्शनिको यावान् विकासोऽभवत् तावन्तं समस्तमंत्र ग्रन्ये ते सूत्रितवन्तः । पक्ष-साध्यदृष्टान्त- हेतूपलब्ध्यनुपलब्धि-सप्तभङ्गी - हेत्वाभास-नय-नयाभास-वाद-वादि
२४. श्री सिद्धसेन - हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः । येषां विमृश्य सततं विविधान् निबन्धान् शास्त्रं चिकीर्षति तनु प्रतिभोऽपि मादृक् ॥ प० १. स्याद्वादरत्नाकरस्य प्रथमे भागे लो० ८ ।
२५. प्रमाणपरीक्षा-प्रमाणलक्षण- न्यायदीपिकादिदिगम्बर ग्रन्थेष्वपि प्रत्यक्षस्यैते सर्वे प्रकारा दृश्यन्ते । अवग्रहादयोऽध्यादयश्च भेदा आगमेष्वपि सन्ति । श्री हेमचन्द्रसूरिभिस्तु विस्तरात् प्रमाणमीमांसायां प्रमाण मे दाश्चर्चिता: ।