SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ (१६) प्रमाणनयतत्त्वालोके सूत्रे च ‘अक्षेभ्यः, परतो वर्तते' इति, पैरोक्षतयेव प्रतिपन्नम् । नयायिक-चौद्धादीनां तर्कस्य विकसिते सति, इन्द्रियमनोनिमित्तं घट-पटसुखादिज्ञानमपि प्रत्यक्षम्' इतिकल्पना सर्वत्र प्रसृतवती; सा च स्थूलव्यवहारदृष्ट्या जैनानामपि नानुचितेति हेतोनन्दिसूत्रादिषु इन्द्रियव्यवधानात् तादृशं मतिज्ञानं परोक्षमपि लौकिकप्रत्यक्षतया समर्थितम् । विशेषावश्यकभाष्येऽपि " इंदियमणोभवं जं तं संक्वहारपचक्खं" (गाथा ६५)-इति गाथया घटपटसुखादिज्ञानस्य व्यवहारेण प्रत्यक्षत्वमङ्गीकृतम् । वस्तुतस्तु आत्मातिरिक्तद्वारा जायमानत्वात् तदप्रत्यक्षमेवास्तीति नैन्यादिषु समाहितम् । २०. "अश्नुते, अक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावान् इत्यक्षो जीवः । अश्नुते विषयमित्यक्षमिन्द्रियं च ॥” (१-१-१०) इति श्रीप्रमाणमीमांसावृत्ती हेमचन्द्रप्रभुरक्षव्याख्यामाचख्यौ । २१. पराणीन्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्याऽऽत्मन उत्पद्यमानं मतिश्रुतं परोक्षमित्याख्यायते त० सर्वार्थसिद्धिटीका । अ० १.११ । २२. “एवं प्रत्यक्षं लौकिकालौकिकभेदेन द्विविधम् । तत्र लौकिकप्रत्यक्षे षोढा सन्निकर्षों वर्णितः, अलौकिकसन्निकर्षस्त्विदानीमुच्यते__ " अलौकिकव्यापार स्त्रिविधः परिकीर्तितः । सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा" ॥ ६३ ॥ इति सिद्धान्तमुक्तावलीप्रत्यक्षखण्डे, पृ० ३३ । न्यायबिन्दुप्रथमपरिच्छेदे । योगसूत्रवृत्तिसमाधिपादे। सांख्यकारिकागौडपादभाष्ये पृ. ४ । नन्दीसूत्रं ३, पृ० २३ । एवमाप्तपरीक्षा-प्रमेयकमलमार्तण्ड-प्रमाणलक्षणादिष्वपि च ऐन्द्रियकज्ञानं सांव्यवहारिकत्वेन प्रतिपादितम् । २३. नन्दिसूत्रं २४, पृ. ५१ । तत्त्वार्थसूत्र-न्यायावतारादिष्वप्यप्रत्यक्षमेवोकम् ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy