________________
प्रमाणनयतत्त्वालोके [सू० ३८-४० अयमर्थः– यद्यपि इन्द्र-शक्रादयः शब्दा इन्द्रत्व-शक्रत्वादिपर्यायविशिष्टस्यार्थस्य वाचकाः, न केवलं पर्यायस्य, तथापि समभिरूढनयवादी गौणत्वाद् द्रव्यवाचकत्वमुपेक्ष्य प्रधानत्वात् पर्यायवाचकत्वमेवाजौकुर्वन् ‘इन्द्रादयः शब्दाः प्रतिपर्यायबोधकत्वाद् , भिन्नभिन्नार्थवाचकाः' इति मन्यते । शब्दनयो हि नानापर्यायभेदेऽप्यर्थाभेदमेवाभिप्रैति, समभिरूढस्तु पर्यायभेदे अर्थभेदं प्रतिपद्यते इति विशेषः ॥ ३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाण
स्तदाभासः ॥ ३८॥ यः पर्यायशब्दानामभिधेयनानात्वमेवाभिप्रैति एकार्थाभिधेयत्वं पुनरमुष्य सर्वथा तिरस्कुरुते स तदाभासः समभिरुढाऽऽभासः ॥ ३८॥
यथा-इन्द्रः, शक्रः, पुरन्दरः इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्नशब्दत्वात्, करि
कुरङ्ग-तुरङ्गशब्दवदित्यादिः ॥३९॥ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाऽऽविष्टमर्थ
वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥४०॥ शब्दानाम्-इन्द्रादिशब्दानां स्वप्रवृत्तिनिमित्तीभूतक्रियाऽऽविष्टमर्थ इन्द्रादिशब्दप्रवृत्तौ निमित्तीभूता या इन्दनादिक्रिया तद्विशिष्टमर्थ यो वाध्यत्वेनाभ्युपगच्छति, क्रियाऽनाविष्टं तु उपेक्षते स एवंभूतः । अयं
१. “इदु परमैश्वर्ये, शक्लंट शक्ती" हैमधातुपाठः।-सं० २. 'कुरङ्गशब्दवदित्यादि क। ३. क्रियाविशिष्टमर्थ ख।