________________
स०४१-४३] सप्तमः परिच्छेदः
१७ हि इन्दनादिक्रियापरिगतमर्थ तत्क्रियाकाले इन्द्रादिशब्दवाच्यमभिमन्यते । समभिरूढस्तु इन्दनादिक्रियायां विद्यमानायामविद्यमानायां च इन्द्रादिशब्दवाच्यत्वमभिप्रेति इत्यनयोर्भेदः ॥ ४० ॥ यथेन्दनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः,
पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ क्रियाऽनोविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिस्तु
तदाभासः॥ ४२ ॥ यः शब्दानां क्रियाऽऽविष्टमेवार्थ वाच्यत्वेनाभ्युपगच्छति क्रियानाविष्टं तु सर्वथा निराकरोति स एवम्भूननयाऽऽभासः ॥ ४२ ॥ यथा-विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्य
खात्, पटवदित्यादिः ॥ ४३॥ अयमस्याशयः-चेष्टार्थ काद् धेरघातोनिष्पन्न वाद् घटशब्दस्य चेष्टाविरहितो घटरूपोऽर्थो वाच्यो न भवितुमर्हति, घटशब्दप्रवृत्ती निमित्तभूता या चेष्टाऽऽख्या क्रिया तच्छून्यवात् , पटवत् । यथा-पटो घटीयचेष्टाशून्यत्वाद् घटशब्दवाच्यो न भवति, तथैव चेष्टाशून्यो घटोऽपि घरपदवाच्यो न भवति ॥ ४३ ॥
१. "पुराणि अरीणां दारयति, त्रिपुरं वा पुरन्दरः" इति हैमकोशटीका ।
२. 'नाविशिष्ट स्त्र । २ त्यादि क ।। ३. “घटिष चेष्टायाम्" इतिहमधातुपाठः ।-संशोधकः ।