SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ स. ३५-३७] सप्तमः परिच्छेदः तद्भेदेन-कालादिभेदेन, तस्य-चनेः, तमेव-अर्थभेदमेव, समर्थयमानस्त दाभासः शब्दनयाऽऽभास इत्यर्थः । __ अयं भावः-योऽभिप्रायः कालादिभेदेन शब्दस्यार्थभेदमेव, समर्थयते द्रव्यरूपतयाऽभेदं पुनः सर्वथा तिरस्करोति स शब्दनयाऽऽभासः ॥ ३४ ॥ यथा-बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिधति, भिन्नकालशब्दत्वात् , तादृसिद्धान्यशब्द वदित्यादिः ॥ ३५॥ अत्रानुमाने " बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति" इति पक्षः । “ भिन्नकालशब्दत्वात्" इति हेतुः । " तादृसिद्धान्यशब्दवद् " इति दृष्टान्तः। अनेनानुमानेन कालादिभेदेनार्थमेव स्वीकुर्वन् त्रिवपि कालेषु विद्यमानमप्यभिन्नं द्रव्यं सर्वथा तिरस्कुर्वनभिप्रायविशेषः शब्दनयाऽऽभासः ॥ ३५ ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन समभिरूढः ॥३६॥ पर्यायशब्देषु–इन्द्र-पुरन्दरादिशब्देषु, निरुक्तिभेदेन-निर्वचनभेदेन, भिन्नमर्थ समभिरोहन्-अभ्युपगच्छन् समभिरुहः ॥ ३६ ॥ इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३७॥ १. धतीत्यादि भिन्न क। २. इत्यादिर्यषा । क ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy