________________
(१४) प्रमाणमयतरवालोके ___ यद्यपि नेन्दीसूत्रादिषु आगमतर्कपद्धत्यनुकूलः प्रमाणद्वयवादोऽपि विलोक्यते, नयवादानन्तरेण च सूत्रान्तरेषु कुत्रचित् प्रत्यक्षानुमानोपमानागमाख्यं प्रमाणचतुष्टयमन्यश्च प्रकारो दृश्यते, परन्तु तेषु सूत्रेषु प्रमाणसङ्ख्याविषये समन्वयस्तु न समीक्ष्यते ।
____ आगमतर्कपद्धत्या प्रमाणविचारः तर्कमार्ग मुख्यतयाऽनुसरद्भिर्जेनतार्किकैः प्रत्यक्ष-परोक्षप्रमाणद्वयवादः स्थापितः, स च विचार्यमाणायामागमपद्धत्यां न विरुद्ध आगमपद्धतित इति निश्चितं प्रतिभाति । अत एवाऽऽगमेतरग्रन्थकारेषु प्रथम श्रीउमास्वातिवाचकवर्यैः 'तत्त्वार्थाधिगमे सूत्रे' आगमरीत्या पञ्चविधं ज्ञानं प्रदW "आधे परोक्षम्" ( तत्त्वार्य० अ० १, सू० ११) "प्रत्यक्षमन्यत" (त० १-१२) इति सूत्राभ्यां तत् प्रत्यक्ष-परोक्षप्रमाणयोर्मध्येऽन्तर्भावितम् । “तत्पमाणे" (त० १-१०) इति सूत्रेण च प्रमाणस्य दैविध्यमेव स्थापितम् । “सर्वाण्येतानि मतिश्रुतयोरन्तर्भूतानीन्द्रियार्थसन्निकर्षनिमित्तत्वात् । किश्चान्यत, अप्रमाणान्येव वा । कुतः ? मिथ्यादर्शनपरिग्रहाद् विपरीतोपदेशाच" (तत्त्वार्थ० १-१२ भाष्यम् ) इति स्वोपज्ञभाष्ये च प्रत्यक्षानुमानोपमानाऽऽगमाख्यः प्रमाणचतुष्टयवादोऽपि निरस्तः ।
९. नन्दीसूत्रं २, पृ० २२। १.. श्रीसिद्धसेनदिवाकर-हरिभद्र-विद्यानन्द-माणिक्यनन्यादिभिः ।
११. आगमपदतिपक्षपातिभिः श्रीदेववाचक-जिनभद्रक्षमाश्रमणादिमिरपि प्रमाणद्वयं स्वीकृतम् ।
१२. तत्वार्थ. १-६ ।