________________
प्रस्तावना ।
(१३)
द्वादशाङ्गसूत्रं तु गीर्वाणभाषायामनेकदर्शनसिद्धान्तानामतिविस्तृतितः प्रतिपादकमासीदिति नन्दिसूत्रादिभ्यो विज्ञायते, तत्र प्रमाण-नयस्याद्वाद-सप्तभङ्गी-निक्षेपादीनां चारुरीत्या चर्चाऽऽसीत्, परन्त्वस्मद्दुर्दैवोदयात् स दृष्टिवादो बहुकालतो विच्छिन्न इति श्रूयते । चतुर्दशसु पूर्वेषु मध्ये, उत्पादाऽस्तिनास्तिप्रवादादिषु बहुषु पूर्वेषु बहुविधदर्शनप्रमाण-नयादीनामुल्लेखो वरीवर्ति स्म । एवमाचाराङ्ग-प्रज्ञापनादिसूत्रेष्वपि कुत्रचित् प्रमातृचर्चा, कुत्रचन नय चर्चा, कापि प्रमाणप्रतिपादनं, कुहचित् प्रमेयप्ररूपणं सुधामधुग्याऽर्धमागधीगिरा चर्कराञ्चक्रुस्त प्रणेतारः । भगवर्ती सूत्रे राजप्रश्नकृते च सूत्रे प्रमाणज्ञानभेदचर्चा जीवचर्चा च प्रतिपादिता । स्थानाङ्गसूत्रे द्विविधं प्रमाणं प्ररूपितम्, नन्दीसूत्रे तु पञ्चविधज्ञानविषयस्यैव मुख्यतया विस्तारानिरूपणमस्ति । अनुयोगद्वारसूत्रेऽपि प्रमाणादिचर्चा नातिविस्तरतो विलोक्यते । परं पूर्वोक्केष्वागमप्रन्थेषु प्रमाणविषये आगमरीतिमनुसृत्य मुख्यतया ‘मत्यादिपञ्चविधस्य ज्ञानस्यैव प्ररूपणं दृश्यते ।
७. मुख्यतया तु पञ्चविधं ज्ञानमेव प्रतिपादितं. तद्यथा-कतिविहे णं भंते ! नाणे पनते? गोयमा ! पञ्चविहे नाणे पन्नते; तं जहा-आभिणिवोहियनाणे सुयनाणे, ओ हेनाणे, मणपज्जानाणे, केवलनाणे...।" भगवती सूत्रे ८ शतके, २ उदेशे, ३१८ सूत्रम् । ( कतिविघं णं भदन्त ! ज्ञानं प्रज्ञप्तम् ? गौतम ! पञ्चविधं ज्ञानं प्रज्ञप्तं, तद् यथा-आभिनिबोधिकज्ञानं (मतिज्ञान), श्रुतज्ञानं, अवधिज्ञानं, मनःपर्यत्रज्ञानं, केवलज्ञानम् । इति छाया) एवं राजप्रश्नकृतेऽपि ज्ञानमेदाः सन्ति, तद् भगवतीसूत्रव वनादेव ज्ञायते यथा-"एवं जहा रायप्पसेणइए जाणाणं मेदो तहेव..." भ० श. ८-२ सू० ३१८ ।
८. आमिनिबोधिकज्ञानस्य मतिज्ञानमित्यपि नामधेयमस्ति ।