SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ (१२) प्रमाणनयतत्त्वालोक स्वभावादिकमपेक्ष्य तदेव प्रमाण-प्रमेयादि निर्बाधं तत्वं तत्तत्काललोकानुकूलया सरण्या परेभ्य उपदिशति, यत् पूर्वतीर्थकरैरुपदिष्टमिति जैनप्रणाली। एवं क्रमशस्त्रयोविंशतीर्थकरश्रीपार्श्वनाथशासनस्य विच्छेदे सति वर्यज्ञानतपश्चर्यादिश्रिया वर्धमानः श्रीवर्धमानापरनामा महामनाश्चतुर्विशतोर्यकरः श्री महावीरप्रभुः प्रभूय केवलाऽऽलोकेन यत् प्रमातृ-प्रमाणप्रमेयादितत्त्वं प्रकटीचकार तदेव श्रीइन्द्रभूतिगौतमगणधरादिभिस्तच्छिष्यभूरिसूरिभिश्च सूत्रग्रन्थादिरूपेण संगृहीतं, तस्य संग्रहस्य जैनागमश्रुतसूत्रसमयसिद्धान्तादीनि नामधेयानि सन्ति । स च संग्रहो मूलमेदाद् द्वादशघा, मूठेतरभेदैश्चानेकधा वर्तते । ___ आगमसाहित्ये दर्शनशास्त्रम् मागमसाहित्यस्य मुमुक्षुमोक्षप्रापकत्वात् प्राचीनत्वात् समग्रप्रतिबोधकत्वाच्च तत्र दर्शनशास्त्रस्यातीवसंक्षेपतया खण्डशश्च निर्देशः कृतः । तथापि सूत्रकृताङ्गसूत्रे समयाख्ये प्रथमाध्ययने बौद्ध-चार्वाक-सांख्य. मद्वैतवादि-नियतिवादि - क्रियाऽक्रियावादि-ज्ञानाऽज्ञानवादिप्रभृतीनां नैकानि दर्शनानि प्रमाणानि च निदिश्य निराकृतानि । दृष्टिवादाख्यं १. सूत्रकृताङ्गद्वितीयेऽध्ययने । ५. अत्यं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हिस्ट्ठाए तओ मुक्तं पवत्तेई ॥ " विशेषावश्यकभाष्ये गाथा १११६"। ६. तत्त्वार्थभाष्ये, अ. १-२० ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy