________________
प्रस्तावना
भोः ! भोः ! दर्शनविमर्शनदत्तचित्ताः ! चेतस्विनः ! दर्शनशास्त्रं नाम स्वर्गापवर्गमार्गदर्शनप्रदीपः, सर्वविद्यासु शेवरायमाणा विद्या, मानवजन्मवृक्षस्याक्षुण्णं फलं, प्रीष्मेऽप्यतापकरः प्रकाशः, अकम्पकरं शैत्यं, अक्लेदकर स्नानं, अनास्यक्लेशकरं हास्य, अनौषधमारोग्यमस्ति । तदेव विविधमततर्कमार्गाणां कुलपर्वत इव नदीवेगानां जनकमजनि ।
भगवतस्तीर्थकृतः श्रीकृषभदेवस्यानन्तरं जैनदर्शनमाविबभूव । ततश्च यथाप्रयोजनं यथापात्रं च 'कपिलादिभ्यः सांख्यादीनि नैकानि मतान्युदभुवन् , तेषु कतमदर्शनं प्राचीनं कतमन्चार्वा चीनमिति निर्णेतुं नास्तीदानीमसर्वज्ञस्य कस्यचित् पार्श्व 'निर्बाध साधनम् , अतो न वयं दर्शनानां प्राचीनार्वाचीनत्वसाधनेऽधिकृतचेष्टां कुर्महे ।
जैनागमोत्पत्तिः कालप्रवाहापेक्षया जैनदर्शनमनादिनिधनमपि वर्तमानावसपिंगीकालभवचतुर्विंशतितीर्थंकरापेक्षया श्रीऋषभदेवाद् भगवत उदपद्यतातः सादिकमित्यपि वक्तुं शक्यते । पूर्वतीर्थकरसिद्धान्ते विनष्टे सति सर्वत्र धर्मशैथिल्ये प्रविष्टेऽपरस्तीर्थकरः समुत्पद्य स्वकालस्थलोकेभ्यस्कालक्षेत्र
१. त्रिषष्टिशलापुरुषचरित्रे, १ पर्वणि ।
२. वैदिक-जैनादीनां मुख्वप्रन्थेषु परस्परदर्शमोल्लेखदर्शनात् , यथानयाने द्वितीवाभाये, ऋग्-पमुर्वेदादिषु च जैनदर्शनोल्लेखो नैकशो दृश्यते । जैनग्रन्थेषु च साप-नेयायिक-चार्वाक-वेदान्तादिर्शनोल्लेखो वरीपति ।
३. श्रीमद्भागवतेऽपि (५ स्कन्धे) ऋषभदेवस्व चरित्रं कीर्तितमस्ति ।