________________
प्रमाणनयतत्वालोके [सं०५-७ ___ व्यक्ति व्यक्तिमधिश्रित्य या तुल्या परिणतिः-सदृशपरिणामः तत् तिर्यक्सामान्यं, यथा-शबल-शाबलेयादिषु नानावर्णविशिष्टेषु पिण्डेषु गोत्वम् ॥ ४ ॥ पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्वतासामान्यं कटक
कङ्कणाधनुगामिकाञ्चनवत् ॥ ५॥ कटकं भक्त्वा कङ्कणे विघीयमाने पूर्वपरिणामः कट कलक्षणः, उत्तरपरिणामः कङ्कणस्वरूपः तयोः पूर्वोत्तरपरिणामयोरनुगतं यत् सुवर्णाऽऽख्यं द्रव्यं तदूर्ध्वतासामान्यमित्यर्थः ॥ ५ ॥
विशेषोऽपि द्विरूपो गुणः पर्यायश्च ॥६॥ गोत्वलक्षणतिर्यक्सामान्यविशिष्टेषु गोपिण्डेषु, शबन-शाबलेयादयो गुणा विशेषशब्दाभिधेयाः । ऊर्वतासामान्यस्वरूपेषु सुर्वर्गदिद्रव्येषु कटक-कङ्कणादयः पर्याया विशेषपदवाच्या इति भावः ॥ ६ ॥ गुणः सहभावी धर्मों यथा-आत्मनि विज्ञान
व्यक्तिशक्त्यादिः ॥७॥ वस्तुषु यः सहभावी धर्मः स गुगः, यथाऽऽ मनि विज्ञानव्यक्तिःयत् किञ्चिज्ञानं, विज्ञानशक्तिः-उत्तरज्ञानाकारपरिणामयोग्यता, सुखं यौवनमित्यादयो समकालभाविनो धर्मा गुणशब्दाभिधेयाः ॥ ७ ॥
१. रणद्रव्य स।