________________
स्०२-४]
पञ्चमः परिच्छेदः
मकान्तवादः स्वतन्त्रवादश्च प्रतीतिपराहत एवेति संक्षेपः ॥ १॥
इदानी हेतुद्वयेन वस्तुनः सामान्यविशेषात्मकत्वं प्रसाधयन्तिअनुगतविशिष्टाकारप्रतीतिविषयत्वात् , प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्याऽर्थ
क्रियासामर्थ्यघटनाच ॥ २॥ वस्तु सामान्य-विशेषात्मकम् , मनुगतविशिष्टाकारप्रतिषयत्वात् । 'तत्र अयं गौरयं गौः' इत्याकारा सदृशपरिणामलक्षणसामान्यगोचरा प्रतीतिरनुगताकारा प्रतीतिः । 'शबलोऽयं श्यामलोऽयम्' इत्याकारा गुणरूपविशेषगोचग प्रतीतिः विशिष्टाकारा प्रतीतिः, इति तिर्यक्सामान्यगुणाख्यविशेषलक्षणनेकान्तात्मकवस्तुसिद्धौ हेतुः । प्राचीनोत्तराकारपरित्यागोपादानावस्थानस्वरूपपरिणत्या पूर्वाकारस्य परित्याग उत्तराकारस्य च स्वीकारः ताभ्यां यद्यस्यावस्थानं तस्वरूपा या परिणतिः तया परिणत्या क्रियासामर्थ्यघटनात् कार्य-करणोपपत्तेः, इत्यूलतासामान्यपर्यायाख्यविशेषस्वरूपानेकान्तात्मकवस्तुसिद्धौ हेतुः ॥२॥ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्खतासामान्य
च ॥ ३॥ तत्र तिर्यक्सामान्यं यथा-गोत्व-घटत्वादि । ऊर्ध्वतासामान्यं यथामृत्-सुवर्णादि ॥ ३ ॥ पतिव्यक्ति तुल्या परिणतिस्तिर्यक्सामान्यं शबल
शाबलेयादिपिण्डेषु गोत्वं यथा ॥४॥