________________
पञ्चमः परिच्छेदः ।
तस्य विषयः सामान्य-विशेषाद्यनेकान्तात्मकं वस्तु ॥ १ ॥
तस्य - प्रमाणस्य | अत्रेदं बोध्यं सत्ताऽद्वैतवादिनो वेदान्तिनः सामान्यमेव तत्त्वमङ्गीकुर्वन्ति न तु विशेषरूपम् । बौद्धाश्च विशेषानेव स्वीकुर्वन्ति न तु सामान्यम् । नैयायिकाश्च यद्यपि सामान्यं विशेषाश्चेत्युभयमपि प्रमाणयन्ति तथाऽपि तयोः सर्वथा पृथग्भावमभ्युपगच्छन्ति ।
तदेतत् पक्षत्रयमपि न समीचीनम्, सामान्य विशेषात्मकस्यैव वस्तुनः प्रमाणेन प्रतीयमानत्वाद्, नहि गौरित्युक्ते सामान्यमेव प्रतीयते विशेष एव वा, अपि तु यथा खुर- ककुत्-सारना- लाङ्गूट - विषाणाद्यवयवसंपन्न वस्तुरूपं सामान्यं सर्वव्यक्त्यनुयायि प्रतीयते तथैव महिष्या दिव्यावृत्तिरपि प्रतीयते, नहि सामान्यं विहाय विशेषः कुत्रचिदुपलभ्यते विशेषं विहाय सामान्यं वा । तदुक्रम्——
" निर्विशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥
99 *
तदेवं वस्तुनः सामान्य- विशेषात्मकत्वस्य प्रतीयमानत्वेऽपि तदु
**लो के 1ऽयं रत्नाकर रावतारिका स्याद्वादमञ्जयादिबहुषु प्रन्येषु दृश्यते, परं केन संहृब्धः ? इति तु न निश्चीयते मया, निश्चायक प्रमाणानुपलब्धेः । संशोधकः - मुनि हिमांशु विजयः ।