________________
स्.-४७] चतुर्थः परिच्छेदः
ज्ञानस्य तदुत्पत्ति-तदाकारताभ्यां प्रतिनियतार्थप्रकाशकवमिति बौद्धमतं, तथाहि-ते वदन्ति-घटादुत्पन्नत्वाद् घटाऽऽकारत्वाच्च परज्ञानं घटस्यैव प्रकाशकं नान्यस्य, अर्थादनुत्पन्नस्य अतदाकारस्य च ज्ञानस्य सर्वान् प्रत्यविशेषात् कथं तस्य प्रतिनियतवस्तुव्यवस्थापकत्वं स्यात् !
तत्र शोभनम्, व्यभिचारोपलम्भात् , तथाहि-किं ज्ञानस्य व्यस्ताभ्यां तदुत्पत्ति-तदाकारताभ्यां वस्तुव्यवस्थापकत्वं भवेत् , समस्ताभ्यां वा प्रथमपक्षे कपालक्षगो घटान्त्यक्षगस्य व्यवस्थापकः स्याद् , कपालस्य घटादुत्पन्नत्वात् तत्र केवलायास्तदुत्पत्तेः सत्वाद् , एवं सम्भः स्तम्भान्तरस्य च व्यवस्थापकः स्यात् तत्र केवलायोस्तदाकारताया विद्यमानत्वात् । समस्ताभ्यामित द्वितीय क्षे तु घटोत्तरक्षगः पूर्ववटक्ष गस्य व्यवस्थापको भवेत् , तत्र तदुत्पत्ति-तदाकारतयोरुभयोर्वियमानत्वात् । यद्युच्येत तदुत्पत्ति-तदाकारतयोविद्यमानत्वेऽपि ज्ञानस्यैव विषयव्यवस्थापकत्वं नार्थस्य, तस्य जडत्वात् , तदपि नावितथं, समानार्थ समनन्तरप्रत्ययोत्पन्नज्ञ नैर्यभिचारात् । तत्र तदुत्पत्ति-तदाकारतयोविधमानत्वेऽपि पूर्वज्ञानक्षणव्यवस्थापकत्वाऽभावात् , तस्मान्न तदुत्पत्ति-तदाकारताभ्यां ज्ञानस्य विषयव्यवस्थापकत्वम् , अपि तु ज्ञानाऽऽवरणीय कर्म गः क्षयक्षयोपशमाभ्यामेवेति दिक् ॥ ४७॥
इति बालबोधिन्या टिप्पण्या युको श्रीवादिदेवसरि. संरब्धे श्रीप्रमाणानयतत्वाऽऽलोके आप्ताऽऽगमवर्ण-पद-वाक्य-सप्तमकीस्वरूपनिर्णायकः
चतुर्थः परिच्छेदः।