________________
७२
प्रमाणनयतत्वालोके
[ सू० ४५-४०
एव अनन्तपर्यायात्मकस्य वस्तुनो वाचक इति शब्देनाभेदवृत्तिः ।
एवं कालादिभिरष्टविधा भेदवृत्ति: पर्यायार्थिकनयस्य गुणभावे द्रव्यार्थिकनयप्राधान्यादुपपद्यते । द्रव्यार्थिकनयगुणभावे पर्यायार्थिकनयप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवतीति कालादिभिर्भिन्नानाममपि गुणानामभेदोपचारः क्रियते इति । एवं कालादिभिरभेदवृत्त्या अभेदापचारेण वा यौगपद्येनानन्तधर्मात्मकस्य वस्तुनः प्रतिपादकं वाक्यं सकलादेश इत्युच्यत इति ॥ ४४ ॥ तद्विपरीतस्तु विकलादेश: ॥ ४५ ॥
-
नयविषयीकृतस्य वस्तुधर्मस्य यदा कालादिभिर्भेदविवक्षा क्रियते तदा एकस्य शब्दस्यानेकार्थप्रतिपादने सामर्थ्याभावाद भेदवृत्या भेदोपचारेण वा क्रमेण यदभिधायकं वाक्यं स विकलादेश इत्यर्थः || ४५ || तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेष स्वरूपसामर्थ्यतः प्रतिनियतमर्थमद्योतयति ॥ ४६ ॥
पूर्वोक्तं प्रत्यक्ष-परोक्षभेदेन द्विविधमपि प्रमाण स्वकीयप्रतिबन्धकानां ज्ञानावरणीयादिकर्मभेदानां यः क्षयः क्षयोपशमश्च तद्रूपं यत् सामर्थ्ययोग्यता, तद्वशाद् घटपटादिकं प्रतिनियतं वस्तु व्यवस्थापयति । एतेन ज्ञानं हि तदुत्पत्ति तदाकारताभ्यां प्रतिनियतवस्तु व्यवस्थापयतीति सुगतराद्धान्तो निरस्तो वेदितव्यः ॥ ४६ ॥
न तदुत्पत्ति तदाकारताभ्यां तयोः पार्थक्येन सामस्त्येन च व्यभिचारोपलम्भात् ॥४७॥