________________
सू०४४] चतुर्थः परिच्छेदः तत्वात् 'स्यादस्त्येव घटः' इतिवाक्यमेकधर्मविशिष्टवस्तुप्रतिपादनमुखेन योगपघेनानन्तधर्मात्मकं वस्तु प्रतिपादयति । के पुनः कालादयः ? इति चेत्, उच्यते-कालः, आत्मरूपम् , अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दश्चेत्यष्टौ ।
तत्र ‘स्यादस्त्येव घटः' इत्यत्र घटादौ यत्कालावच्छेदेनास्तित्वं वर्तते तत्कालावच्छेदेन शेषा अनन्तधर्मा अपि तत्र वर्तन्ते इति कालेनाऽभेदवृत्तिः । यदेवास्तित्वस्य घटगुणत्वमात्मरूपं-स्वरूपं तदेवान्यसर्वगुणानामिति आत्मरूपेणाभेदवृत्तिः । य एव च घटद्रव्यरूपोऽर्थोऽस्तित्वस्याऽऽधारः स एवान्यपर्यायाणामपीत्यर्थेनाऽभेदवृत्तिः। य एव चाविनाभावः कथञ्चित्तादाम्यस्वरूपोऽस्तित्वस्य सम्बन्धः स एवानन्तधर्माणामपीति सम्बन्धेनाऽभेदवृत्तिः । य एव चोपकारोऽस्तित्वस्य स्वानुरकत्वकरणं-स्ववैशिष्टयसम्पादनं-स्वप्रकारकर्मिविशेष्यकज्ञानजनकत्वपर्यवसन्नं, (अस्तित्वस्य स्वानुरक्तत्वकरणं हि अस्तित्वप्रकारकघटविशेष्यकज्ञानजनकत्वम्) स एवोपकारोऽनन्तधर्माणामपीति उपकारेणाभेदवृत्तिः । य एव गुणिनः संबन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवान्यधर्माणामपीति गुणिदेशेनाऽभेदवृत्तिः । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवाऽपरधर्माणामपीति संसर्गेणाभेदवृत्तिः। ननु सम्बन्धसंसर्गयोः को विशेषः ? इति चेद् , उच्यते-द्रव्य-पर्याययोः कथञ्चिद् भिन्नाभिन्नत्वापरपर्यायकथञ्चित्तादात्म्यलक्षणः सम्बन्धः संसर्गश्च। तत्र यदा अभेदस्य प्राधान्यं भेदस्य च गौणत्वं विवक्ष्यते तदा सम्बन्धः । यदा तु भेदस्य प्राधान्यमभेदस्य च गौणत्वं विवक्ष्यते तदा संसर्ग इस्युच्यते। य एवास्तीतिशब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स