SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालो के [ स० ४३-४४ तस्य - सन्देहस्याऽपि सप्तविधत्वं सन्देह विषयी भूत वस्तुधर्माणां कथञ्चिदस्तित्वादोनां सप्तविधत्वादित्यर्थः ॥ ४२॥ इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥ ४३ ॥ ७० प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥ ४४ ॥ यौगपद्येनानन्तधर्मात्मकं वस्तु प्रतिपादयति सकलादेशः । अयमर्थः - सकलादेशत्वेन विवक्षितं ' स्यादत्येव घटः ' इदं वाक्यं न केवलमस्तित्वधर्मविशिष्टं घटं बोधयति किन्तु अनन्तर्धात्मकं घटं प्रकाशयति । ननु कथमस्तित्वधर्मविशिष्टवस्तुबोधकमिदं वाक्यमनन्तधर्मात्मक वस्तुबोधकम् ? इति चेत्, उच्यते - सर्वधर्माणामस्तित्वात्मकत्वाद् एक धर्मविशिष्ट वस्तुप्रतिपादनद्वारा इदं वाक्यं अनन्तधर्मात्मकं वस्तु प्रतिपादयति । ननु सर्वधर्माणामस्तित्वात्मकत्वैव न सम्भवति, परस्परभिन्नत्वात् सर्वधर्माणामिति चेत्, न, कालादिभिरभेदवृत्ति प्राधान्यादभेदोपचाराद् वा अस्तित्वाख्यस्य धर्मस्यानन्तधर्मात्मकत्वोपपत्तेः तथाहि - यदा कालादिभिरष्टाभिः कृत्वा अभेदवृत्तेः- धर्म - धर्मिणोर भेदस्य प्राधान्यमङ्गीक्रियते तदा कालादिभिः समस्तधर्माणां तादात्म्येनावस्थि स्वरूपादिकमप्रिमसूत्रे १. सकल ISS देश - विकलाss देश योर्विषये पश्यत । - संशोधकः । २. स्वभाया वा वि. क ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy