________________
स. ३८-४२] चतुर्थः परिच्छेदः
अत्र कारणमाहुःविधि-निषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्ता___ नामपि सप्तभङ्गीनामेव सम्भवात् ॥ ३८ ॥
प्रतिपर्यायमवलम्ब्य वस्तुनि सप्तैव भङ्गाः सम्भवन्ति नाऽनन्ताः, सप्तभङ्गानामानन्त्यं तु इष्टमेवेति न दोषः, इति भावः ।। ३८ ॥ कुतः प्रतिपर्यायमवलम्ब्य सौव भङ्गाः सम्भवन्ति ? इत्यत आहुःप्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव
सम्भवात् ॥ ३९ ॥ प्रतिपर्यायमात्रिय सप्तानामेव शिष्यान्नानां सम्भवादुत्तरमपि सप्तभङ्गात्मकमिति भावः ॥ ३९ ॥
प्रश्नानां सप्तविधत्वे हेतुं प्रदर्शयन्तितेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् ॥४०॥
प्रतिपाद्यगतजिज्ञासायाः सप्तविधत्वात् प्रश्नानामपि सप्तत्वमित्यर्थः ॥ ४० ॥ तस्या अपि सप्तविधत्वं सप्तधैव तत्सन्देहसमु
त्पादात् ॥ ४१ ॥ तस्याः-जिज्ञासाया अपि सप्तविधत्वं प्रतिपाद्यगतसंदेह्रस्य सतविधत्वात् ।। ४१॥ तस्यापि सप्तप्रकारकत्वनियमः स्वगोचरवस्तुधर्माणां
सप्तविधत्वस्यैवोपपत्तेः ॥ ४२ ॥