________________
सु० ३०-३३] चतुर्थः परिच्छेदः
तस्याऽवक्तव्यशब्देनाप्यवाच्यत्वपसङ्गात् ॥ ३० ॥
अयमर्थः- चतुर्थभङ्गैकान्ते हि शब्दस्याऽवक्तव्यशब्देनाऽप्यवाच्यत्वं स्यात्, तस्माच्चतुर्थभङ्गैकान्तोऽपि न युक्तः ॥ ३० ॥ विव्यात्मनोऽर्थस्य वाचकः सन्नुभयात्मनो युगपदवाचक एव स इत्येकान्तोऽपि न
कान्तः ॥ ३१॥ ' स्यादस्ति चावकव्यश्चेतिभङ्गस्वरूप एव शब्दः ' इत्येकान्तोऽपि न युक्त इति ॥ ३१॥
अत्र निमित्तमाहुःनिषेधात्मनः सह द्वयात्मनश्वार्थस्य वाचकत्वावाचकत्वाभ्यामपि शब्दस्य प्रतीयमान
खात् ॥ ३२ ॥ 'स्यान्नास्ति चावक्तव्यश्च' इति षष्ठभङ्गे निषेधात्मनोऽर्थस्य वाचकत्वेन सह युगपत् प्रधानभावेन विधि-निषेधात्मनोऽर्थस्यावाचकश्च शब्दः प्रतीयते तस्मात् पञ्चमभङ्गै कान्तोऽपि न समीचीनः ॥ ३२ ॥ निषेधात्मनोऽर्थस्य वाचक सन्नुभयात्मनो युगपदवाचक एवायमित्यप्यवधारणं न रम
णीयम् ॥ ३३॥ 'कथञ्चिन्नास्तित्वविशिष्टकथञ्चिदवकल्यस्वभावस्य वस्तुन एवं वाचकः शब्दः' इति षष्ठभङ्गै कान्तोऽपि न रमगीय इत्यर्थः ॥ ३३ ॥