SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू० २७-२९ भावेन बोधकत्वमन्तराऽन्यत्राप्रधानभावेन बोधकत्वासम्भवात् , तस्माद् निषेधप्रधान एव शब्दः' इति एकान्तोऽपि न समीचीन इति भावः ॥ २६ ॥ क्रमादुभयप्रधान एवायमित्यपि न साधीयः ॥२७॥ अयं शब्दः ‘स्यादस्त्येव घटः स्यान्नास्त्येव घटः' इत्याकारक क्रमापितोभयमेवाभिधत्ते इत्यपि न साधु ॥ २७ ॥ अस्य विधि-निषेधान्यतरप्रधानत्वानुभवस्याप्यवाध्य मानत्वात् ।। २८ ॥ अस्य-शब्दस्य विधिप्राधान्येन निषेधप्राधान्येन च स्वातनयेणानुभूयमानत्वात् 'क्रमादुभयप्रधान एवायम्' इति तृतीयभङ्गैकान्तोऽपि न कान्तः ।। २८॥ युगपद्विधि-निषेधात्मनोऽर्थस्यावाचक एवासाविति *वचो न चतुरस्रम् ॥ २९॥ असौ शब्दो विधिरूपमर्थ निषेधरूपमर्थं च युगपत्प्राधान्येन प्रतिपादयितुं न समर्थ इत्यर्थकः 'स्यादवक्तव्यमेव' इति चतुर्थभङ्गैकान्तोऽपि न रमणीयः ॥ २९ ॥ ___* अत्र यद्यपि स्याद्वादरत्नाकरावतारिकानुसारेणैव सूत्राणि मुद्रितानि, स्याद्वादरत्नाकरावतारिकायां च '*च न चतुरस्रम्' इति पाठो वर्तते, तथाऽपि अन्यमुद्रितपुस्तके, हस्तलिखितपुस्तके च वचो न चतुरस्रम्' इत्येव पाठो दृश्यते, अस्माकमप्ययमेव पाठः श्रेयान् प्रतिभाति, तस्माद् 'वचो न चतुरनम्' इति पाठ एव स्त्रीकृतोऽत्रास्माभिः । सं०-मुनिहिमांशुविजयः।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy