SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सू० २२-२६] चतुर्थः परिच्छेदः ' शब्दः प्राधान्येन विधिमेवाभिधत्ते न निषेधम्' इति कथनं न युक्तमित्यर्थः ॥ २२ ॥ मत्र हेतुमाहुः निषेधस्य तस्मादप्रतिपत्तिप्रसक्तेः ॥ २३ ॥ शब्दो यदि एकान्तेन विधिबोधक एव भवेत् तर्हि तस्माद् निपेधस्य ज्ञानं कदापि न स्यात् , निषेधज्ञानं तु अनुभवसिद्धं, तस्मान्न विधिबोधक एव शब्दः किन्तु निषेधबोधकोऽपीति भावः ॥ २३ ॥ अपाधान्येनैव ध्वनिस्तमभिधत्त इत्यप्यसारम् ॥२४॥ ननु भवतु शब्दो निषेधबोधकोऽपि तथाऽपि अप्रधानभावेनैव तमभिधत्ते इति चेत् , तदप्यसारम् ॥ २४ ॥ अत्र कारणमाहुःकचित् कदाचित् कथश्चित् प्राधान्येनापतिपन्नस्य तस्याप्राधान्यानुपपत्तेः ॥ २५ ॥ निषेधस्य कुत्रचित् प्राधान्येन भानाभावेऽन्यत्राप्राधान्येन भानं न भवितुमर्हति तस्मात् शब्दः कुत्रचित् प्राधान्येनापि निषेधमभित्ते इत्यङ्गीकरणीयम् ॥ २५ ॥ निषेधप्रधान एव शब्द इत्यपि प्रागुक्तन्यायाद पास्तम् ॥ २६॥ शब्दो यदि प्रघानभावेन निषेधमेवाभिदध्यात् तर्हि विधिबोधको न स्यात् , अप्रधानभावेन विधि बोधयतीति चेत्, कुत्रचित् प्रधान
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy