SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालो के [सू० १९-२२ यदा अस्तित्व - नास्तित्वधर्मौ युगपः प्रधानभावेन विवक्षितौ तदा तादृशयुगपद्धर्मद्वयबोधकशब्दाभावादवक्तव्यमेवेति चतुर्थी भङ्गः ॥ १८ ॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युग - पद्विधि - निषेधकल्पनया च पञ्चमः ।। १९ ।। ૬૪ स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सति अस्तित्व - नास्तित्वाभ्यां यौगपद्येन वक्तुमशक्यं सर्वं वस्तु, इति स्यादस्तित्वविशिष्टस्यादवक्तव्यमेवेति पञ्चमो भङ्गः ॥ १९ ॥ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया, युगपद्विधि-निषेधकल्पनया च षष्ठः ॥ २० ॥ परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे सति अस्तित्व - नास्तित्वाभ्यां यौगपद्येन वक्तुमशक्यं सर्वं वस्तु, इति स्यान्नास्तित्वविशिष्टस्यादवक्तव्यमेवेति षष्ठो भङ्गः ॥ २० ॥ स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि - निषेधकल्पनया, युगपद्विधि - निषेधकल्पनया च सप्तम इति ॥ २१ ॥ क्रमतः स्वद्रव्यादिचतुष्टयापेक्षयाऽस्तित्वे सति परद्रव्यादिचतुष्टयापेक्षया नास्तित्वे च सति यौगपद्येनास्तित्व- नास्तित्वाभ्यां वक्तुमशक्यं सर्व वस्तु, इति सप्तमो भङ्गः ॥ २१ ॥ विधिप्रधान एव ध्वनिरिति न साधु ॥ २२ ॥ १. सप्तमः । 'इति' पदं नास्ति क ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy