________________
२०१६-१८] चतुर्थः परिच्छेदः सरोजं भवत्येव' इत्याकारकप्रयोग इति चेत्, न, *राद्धान्तेऽत्रायोगव्यवच्छेदकस्यैवकारस्य स्वोकृतत्वात् , क्रियासंगतैवकारोऽपि कचिदयोगव्यवच्छेदबोधको भवति, यथा-'ज्ञानमर्थं गृह्णात्येव' इत्यत्र ज्ञानत्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्य अर्थग्राहकत्वे बोधः । एवं 'स्यादत्येव घटः' इत्यादिष्वपि अयोगव्यवच्छेदक एव एवकारो बोद्धव्यः ।
यद्यपि राद्धान्ते सत्त्वमिवाऽसत्त्वमपि घटस्य स्वरूपमेव, तथापि 'स्यादस्त्येव घटः' इत्यत्र सत्त्वस्य प्राधान्येन भानम् , असत्वस्य चाप्राधान्येन । एवं द्वितीयभङ्गे नास्तित्वस्य प्राधान्येन अस्तित्वस्य चाप्राधान्येन भानम् । एवमन्यभङ्गेष्वपि ज्ञातव्यम् ॥ १५ ॥ स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः ॥ १६ ॥
'परद्रव्य-क्षेत्र-काल-भावैः कथञ्चिन्नास्त्येव कुम्भादिः' इति निषेधकल्पनया द्वितीयो भङ्गः ॥ १६ ॥ स्यादस्त्येव नास्त्येवेति क्रमतो विधि-निषेधकल्पनया
तृतीयः ॥ १७॥ यदा वस्तुगतास्तित्व-नास्तित्वधर्मों क्रमेण विवक्षितौ तदा 'स्यादस्त्येव स्यानास्त्येव' इति तृतीयो भङ्गः ॥ १७ ॥ स्यादवक्तव्यमेवेति युगपद्विधि-निषेधकल्पनया
चतुर्थः ॥१८॥ * सिद्धान्ते । प्रकृते तु जैनसिद्धान्ते इति बोध्यम् ।
म
स०