________________
तत्वालाके
६२
प्रमाणनयतत्त्वालोके [सू० १५ लभ्यते यत् स्वरूपादिभिरस्त्येव सर्वं वस्तु न तु नास्स्यप, पररूपादिभिर्नास्तित्वं तु इष्टमेव । ___ एवकारस्त्रिधा-अयोगव्यच्छेदकः, अन्ययोगव्यवच्छेदकः, अत्यन्तायोगव्यवच्छेदकश्च । तत्र विशेषणसंगतैवकारोऽयोगव्यवच्छेदकः । अयोगव्यवच्छेदकत्वं नाम-उद्देश्यतावच्छेदकसमानाधिकरणाऽयन्ताभावाऽप्रतियोगित्वं, यथा 'शङ्खः पाण्डुर एव' इत्यत्रोदेश्यतावच्छेदकं शङ्खत्वं, तत्समानाधिकरणात्यन्ताभावोन तावत्पाण्डुरत्वात्यन्ताभावोऽपि तु पीतत्वाद्ययन्ताभावः, तत्प्रतियोगित्वं पीतत्वादी, अप्रतियोगित्वं पाण्डुरत्वे वर्तत इति लक्षणसमन्वयः । विशेष्यसंगतैवकारोऽन्ययोगव्यवच्छेदकः, अन्ययोगव्यवच्छेदकत्वं च विशेष्यभिन्नतादात्म्यादिव्यवच्छेदः, यथा-'पार्थ एव धनुर्धरः, अत्र पार्थान्यतादात्म्याभावो धनुर्धरे एवकारेण बोध्यते । क्रिया संगतैवकारश्चात्यन्तायोगव्यवच्छेदकः । अत्यन्ताऽयोगव्यवच्छेदकत्वं नाम-उद्देश्यतावच्छेदकव्यापकाभावाप्रतियोगित्वं, यथा“नीलं सरोजं भवत्येव' इत्यत्र उद्देश्यतावच्छेदकं सरोजत्वं तद्व्यापकोऽन्यन्ताभावो नहि नोलाऽभेदाऽभावोऽपि तु पटाऽभेदाऽभावः, तत्प्रतियोगित्वं पटाऽभेदे, अप्रतियोगित्वं नीलाऽभेदे वर्तत इति लक्षणसमन्वयः। ____ ननु ‘स्यादस्त्येव सर्वम्' इत्यादौ एवकारस्य क्रियासंगत्वादत्यन्तायोगव्यवच्छेदेन भवितव्यं, तथा सति विवक्षिताऽसिद्धिः स्यात्, कस्मिंश्चिद् घटे अस्तित्वस्याभावेऽपि ‘स्यादस्त्येव घटः' इत्याकारकप्रयोगसम्भवात्, यथा कस्मिंश्चित् सरोजे नीउवाऽमावेऽपि 'नीलं