________________
स्०१५] चतुर्थः परिच्छेदः प्रतिभङ्गं सकलादेशस्वभावा प्रमाणसप्तभङ्गी । प्रतिभङ्गं विकलाऽऽदेशस्वभावा च नयसप्तभङ्गी । एकधर्मबोधनमुखेन अमेदवृत्त्या अभेदोपचाराद् वा तदात्मकानेकाशेषधर्मात्मकवस्तुविषयकबोधजनकवाक्यत्वं सकलादेशत्वम् । कुत्राऽभेदवृत्त्या प्रतिपादयति ? कुत्र चाभेदोपचारेण ! इति चेत्, उच्यते-द्रव्यार्थनयाङ्गीकारपक्षे सर्वपर्यायाणां द्रव्यात्मकत्वात् ‘स्यादस्त्येव घटः' इति वाक्यमस्तित्वलक्षणैकधर्मप्रतिपादनद्वारा तदात्मकाशेषधर्मात्मकं वस्तु अभेदवृत्त्या प्रतिपादयति । पर्यायार्थनयस्वीकारपक्षे तु सर्वपर्यायाणां परस्परभिन्नत्वाद् एकस्य शब्दस्यानेकार्थप्रत्यायने सामर्थ्याऽभावादभेदोपचारेणानन्तधर्मात्मकं वस्तु प्रतिपादयति। अभेदवृत्तेरभेदोपचारस्याऽनाश्रयणे एकधर्मात्मकवस्तुविषयकबोधजनक वाक्यं विकलादेश इति ॥ १४ ॥ तद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया
प्रथमो भङ्गः ॥१५॥ अत्र स्यात्पदमनेकान्तबोधकम् , ' अत्येव सर्वं कुम्भादि, इत्युक्ते स्वरूपेणास्तित्वमिव पररूपेणाप्यस्तित्वं प्राप्नोति, तद्वयावृत्त्यर्थं स्यात्पदं, तेन च स्यात्-कथञ्चित्त्स्वद्रव्य-क्षेत्र-काल-भावैरव कुम्भोऽस्ति, न परद्रव्यक्षेत्र-काल-भावैरित्यर्थो लभ्यते । तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाऽऽबादित्वेन, देशतः पाटलिपुत्रत्वेनास्ति न कान्यकुब्जत्वेन, कालतः वासन्तिकत्वेनास्ति न शैशिरत्वेन, भावतः श्यामत्वेनास्ति न रक्तत्वेन ।
_ 'स्यादस्त्येव सर्वम्' इत्यत्र स्वरूपादिभिरस्तित्वमिव स्वरूपादिभिरेव नास्तित्वमपि स्यात् तद्वयावृत्त्यर्थमेवकारग्रहणं, तेन चायमों