SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३१२ शिवभूतिज्ञातम्। स एव निष्परिग्रहो जिनकल्प कर्त्तव्यः, किं पुनरनेन कषाय-भय-मूर्छादि-दोषविधिना परिग्रहानर्थेन ? अत एव श्रुते निष्परिग्रहत्वमुक्तम्, अचेलकाश्च जिनेन्द्राः, अतोऽचेलतैव सुन्दरेति ।' ततो गुरुणा प्रोक्तम् - 'हन्त ! यद्येवम्, तर्हि देहेऽपि कषाय-भय-मूर्छादयो दोषाः कस्यापि सम्भवन्ति, इति सोऽपि व्रतग्रहणानन्तरमेव त्यक्तव्यः प्राप्नोति । यच्च श्रुते निष्परिग्रहत्वमुक्तं तदपि धर्मोपकरणेष्वपि मूर्छा न कर्त्तव्या, मूर्छाभाव एव निष्परिग्रहत्वमवसेयम्, न पुनः सर्वथा धर्मोपकरणस्यापि त्यागः । जिनेन्द्रा अपि न सर्वथैवाचेलकाः सव्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं ।' इत्यादि वचनात् ।' तदेवं गुरुणा स्थविरैश्च यथोक्ताभिर्वक्ष्यमाणाभिश्न युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहादिकर्मोदयाद् न स्वाग्रहाद् निवृत्तोऽसौ, किन्तु चीवराणि परित्यज्य निर्गतः । ततश्च बहिरुद्याने व्यवस्थितस्यास्योत्तरा नाम भगिनी वन्दनार्थं गता । सा च त्यक्तचीवरं तं भ्रातरमालोक्य स्वयमपि चीवराणि त्यक्तवती। ततो भिक्षार्थं नगरमध्ये प्रविष्टा गणिकया दृष्टा । तत इत्थं विवस्त्रां बिभत्सामिमां दृष्ट्वा 'मा लोकोऽस्मासु विराङ्क्षीत्' इत्यनिच्छन्त्यपि तया वस्त्रं परिधापिताऽसौ । तत एष व्यतिकरोऽनया शिवभूतेनिवेदितः । ततोऽनेन 'विवस्त्रा योषिद् नितरां बिभत्साऽतिलज्जनीया च भवति' इति विचिन्त्य प्रोक्ताऽसौ - 'तिष्ठत्वित्थमपि न त्यक्तव्यं त्वयैतद् वस्त्रम् । देवतया हि तवेदं प्रदत्तमिति' ततः शिवभूतिना कौण्डिन्यकोट्टवीर-नामानौ द्वौ शिष्यौ दीक्षितौ ....तस्मात् कौण्डिन्यकोट्टवीरात् परम्परास्पर्शमाचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना सञ्जाता 'बोटिकदृष्टिः' इत्यध्याहारः ।' ॥२३॥ હું તે કરીશ. વસ્રરહિતપણું સારું છે.” ગુરુએ અને Wવીરોએ તેને અટકાવ્યો. પણ તે પોતાના કદાગ્રહથી પાછો ન ફર્યો. અને વસ્ત્રો કાઢી નીકળી ગયો. બહાર ઉદ્યાનમાં જઈને રહ્યો. ત્યાં તેની બહેન વંદન કરવા આવી. ભાઈને વસ્ત્રરહિત જોઈ તેણીએ પણ વસ્ત્રો કાઢી નાખ્યા. પછી ભિક્ષા માટે નગરમાં પેઠી. ગણિકાએ તેણીને જોઈ. “લોકો અમારી ઉપર વિરક્ત ન થઈ જાય.' એમ વિચારી તેણીએ તેણીને વસ્ત્ર પહેરાવ્યા. તેણીએ ભાઈને વાત જણાવી. ભાઈએ વિચાર્યું કે “વસ્રરહિત સ્ત્રી બિભત્સ અને લજ્જાપાત્ર બને છે.” તેથી તેણીને કહ્યું ‘વસ્ત્ર ભલે રહ્યા. શિવભૂતિએ બે શિષ્યોને દીક્ષા આપીકૌડિન્ય અને કોટ્ટવીર. પછી પરંપરાએ દિગંબર મતનો પ્રાદુર્ભાવ થયો. (૨૩). १. सर्वेऽपि एकदृष्येण निर्गताः जिनवराः चतुर्विंशतिः ।
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy