SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रसन्नचन्द्रराजर्षिज्ञातम्। २९५ क्व गच्छति ? भगवतोक्तं-पञ्चमी पृथ्वीं याति । पुनरपि क्षणं विलम्ब्य पृष्टम् । भगवतोक्तं-चतुर्थी पृथ्वीं याति । एवं तृतीयायां द्वितीयायां प्रथमायां । पुनरपि श्रेणिकेन पृष्टम् - प्रभो ! अधुना क्व गच्छति भगवतोक्तं प्रथमदेवलोके, एवं द्वितीये तृतीये चतुर्थे पञ्चमे षष्ठे सप्तमे अष्टमे नवमे दशमे एकादशे द्वादशे च, एवमनुक्रमेण नवसु ग्रैवेयकेषु यावत्पञ्चानुत्तरविमानानि तावत्पर्यन्तं श्रेणिकप्रश्नानन्तरं भगवता तत्प्रश्नोत्तरं दत्तम् । अनया रीत्या सभायां प्रश्नोत्तरनिर्णये जायमाने, अस्मिन्नवसरे नभसि देवदुन्दुभिनिनादं निशम्य श्रेणिकेन पृष्टम्, प्रभो ! क्वायं दुन्दुभिनिनादः ? मया न ज्ञातम् । किमिदं स्वरूपं ? स्वामिन् ! कृपां विधायैतदुदन्तं प्रसादीकुरू । प्रभुणोक्तं....भो श्रेणिक ! यदवसरे त्वया प्रसन्नचन्द्रोऽभिवन्दितस्तदवसरे त्वदीयदण्डधरदुर्मुखवचनं श्रुत्वा स ध्यानाच्चलितः परसेनया युद्धं मनसैव करोति स्म ।.....ततो युद्धेन सप्तम-नरकगमनयोग्या आयुःपुद्गला मेलिताः, न तु निकाचितबन्धेन बद्धाः । तदनु त्वं तं वन्दित्वाऽत्रागतः । तेन तु मनसा युद्धे क्रियमाणे शस्त्रैः सर्वेऽपि शत्रवो निहताः, शस्त्राणि सर्वाण्यपि च व्ययितानि, शत्रवोऽपि सर्वे क्षयं नीताः । एतदवसरे एकः शत्रुः सन्मुखं स्थितः, शस्त्रं तु पार्वे न स्थितम्, तदा प्रसन्नचन्द्रेण रौद्रध्यानपरायणेन मनसि विचारितम्, शिरःस्थलोहमयेन पट्टेन वैरिणं ताडयामीति बुद्ध्या साक्षादेव हस्तौ तेन शिरसि न्यस्तौ । तत्कालं कृतकेशलुञ्चनं स्वं शिरो दृष्ट्वा स पश्चाद्वलितः, अहो ! धिग्मयाऽज्ञानान्धितधिया रौद्रध्यानपरायणेन किं चिन्तितम् ?.....एवं शुभध्यानमापन्नः प्रतिक्षणं निकृष्टनिकृष्टतराध्यवसायबद्धानि कर्मदलिकान्युन्मूलयामास, शुभतराध्यवसायवशेन सप्तानामपि पृथिवीनां गमनयोग्यानि दलिकानि स्फेटयित्वोर्ध्वं यावत्सर्वार्थसिद्धिविमानगमनयोग्यं कर्मदलिकं मेलयित्वोत्तरोत्तरपरिणामधारया परमपदप्राप्तिपरम प्रभुमे ऽद्यु, 'अनुत्तरमां.' त्यां४ हेव९६मि. संभा. प्रभुमे युं, 'प्रसन्नयन्द्रषिने કેવળજ્ઞાન થયું છે.' શ્રેણિકને કંઈ સમજાયું નહીં. એટલે પ્રભુએ કહ્યું, ‘જ્યારે તે ઋષિને વંદન કર્યા ત્યારે તે મનથી દુશમનો સાથે યુદ્ધ કરતા હતા. તેથી ૭મી નરક યોગ્ય કર્મ બાંધ્યું. યુદ્ધ કરતા કરતા બધા શસ્ત્રો ખૂટી ગયા. એક શત્રુ સામે આવ્યો. એટલે માથા ઉપરના લોઢાના પાટાથી એને મારું એમ વિચારી માથા ઉપર હાથ મૂક્યો. લોચવાળા માથાનો સ્પર્શ થતા તેમને પસ્તાવો થયો. શુભધ્યાનમાં આગળ વધ્યા. નરક યોગ્ય કર્મ વિખેરી દેવલોક યોગ્ય કર્મ બાંધ્યા. ધ્યાનમાં આગળ વધતા ઘાતિકર્મ ખપાવી કેવળજ્ઞાન
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy