________________
२९४
प्रसन्नचन्द्रराजर्षिज्ञातम् ।
नीतेव मूर्छा विषैः । बद्धेवाऽतनुरज्जुभिः परगुणान्वक्तुं न शक्ता सती, जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ तथा चोक्तं- आर्योऽपि दोषान् खलवत्परेषां वक्तुं हि जानाति परं न वक्ति । किं काकवत्तीव्रतराननोऽपि कीर: करोत्यस्थिविघट्टनानि ॥ ततः सुमुखेनोक्तं- भो दुर्मुख ! किमर्थमेनं मुनीश्वरं महात्मानं निन्दसि ? तदा दुर्मुखेनोक्तं- भो ! एतस्य नामापि न ग्रहीतव्यम् ! यदयं पञ्चवार्षिकं बालं राज्ये स्थापयित्वा निर्गतः, परन्त्वेतद्वैरिभिर्मीलित्वा एतन्नगरमुल्लसितम् एतदीया: पौरजनाः क्रन्दन्ति, विलापं कुर्वन्ति, महद्युद्धं जायते । अधुना ते एतदीयं बालकं निहत्य राज्यं ग्रहीष्यन्ति । एतत्सर्वं पापमेतच्छिसि । इति श्रुत्वा ध्यानस्थितेन प्रसन्नचन्द्रराजर्षिणा चिन्तितम् - अहो ! मयि स्थितेऽपि मदीयाः शत्रवो यदि बालकं निहत्य राज्यं गृह्णन्ति तर्ह्येषा मानहानिर्ममैवेति स ध्यानाच्चलितः, मनसैव वैरिभिः सार्धं तेन युद्धं कर्त्तुमारब्धम् । अतीवरौद्ररूपतामापन्नस्तन्मना रौद्रं ध्यानं ध्यायति, मनसैव वैरिणो निहन्ति, हता इमे इति बुद्धया समीचीनं जातमिति मुखेनापि जल्पते, अधुनाऽन्यं मारयामीति पुनरपि मनसा युद्धाय प्रवर्तते । एतस्मिन्नवसरे श्रेणिकेन हस्तिस्कन्धाधिरूढेन प्रसन्नचन्द्रो दृष्टः, अहो ! धन्योऽयं राजर्षिर्य एकाग्रमनसा ध्यानं करोति । श्रेणिकोऽपि गजादुत्तीर्य त्रिः प्रदक्षिणीकृत्य पुनः पुनर्वन्दति स्तौति च । तं वन्दित्वा मनसा स्तुवन् गजमारुह्य स्वामिसमीपमागतः, समवसरणं च दृष्ट्वा पञ्चाभिगमनविधिना जिनं वन्दित्वा करकमलौ मुकुलीकृत्यैवं स्तौति स्म .....। देशनान्ते श्रेणिकः स्वामिनं पृच्छति स्म हे विभो ! यदवसरे मया प्रसन्नचन्द्रो वन्दितस्तदवसरे यदि स कालधर्मं प्राप्नोति तदा क्व गच्छति ? स्वामिनोक्तं- तदा सप्तमीं नरकपृथ्वीं याति । श्रेणिकेनोक्तं - स्वामिन्नधुना क्व गच्छति ? भगवतोक्तं षष्ठीं नरकपृथ्वीं याति । पुनरपि श्रेणिकेन क्षणं विलम्ब्य पृष्टम्, अधुना
-
છોડી.' દુર્મુખ બોલ્યો ‘આના જેવો કોઈ પાપી નથી.' સુમુખ બોલ્યો ‘કેમ નિંદા કરે છે ?’ દુર્મુખ બોલ્યો - ‘આનું તો નામ લેવા જેવું નથી. પાંચ વર્ષના બાળકને રાજ્ય ઉપર બેસાડી આણે ચારિત્ર લીધું. આના દુશ્મનોએ મળીને આનું રાજ્ય લુટ્યું. આના બાળકને મારીને તેઓ રાજ્ય લઈ લેશે.' આ સાંભળી રૌદ્રધ્યાનમાં ચઢી પ્રસન્નચન્દ્રઋષિએ મનથી દુશ્મનો સામે યુદ્ધ કર્યું. એ વખતે શ્રેણિકે તેમને જોયા. વંદન કર્યા. સ્તવના કરી. પછી પ્રભુ પાસે ગયા. દેશના પછી પ્રભુને પૂછ્યું, ‘જે સમયે મેં પ્રસન્નચંદ્ર રાજર્ષિને જોયા ત્યારે જો તે કાળધર્મ પામ્યા હોત તો ક્યાં જાત ?’ પ્રભુએ કહ્યું, ‘સાતમી નરકે.’ એક ક્ષણ પછી ફરી પૂછ્યું. પ્રભુએ કહ્યું, ‘છઠ્ઠી નરકે.' એમ પ્રશ્નોત્તર કરતા કરતા છેલ્લે