SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रसन्नचन्द्रराजर्षिज्ञातम् । २९३ गवाक्षस्थितो नगरस्वरूपं विलोकयति । तस्मिन्नवसरे नानावर्णान्यभ्राणि जातानि सन्ध्यारागः सञ्जातः, तं दृष्ट्वाऽतीवहर्षितो राजा मुहुर्मुहुर्विलोकयति, तत्सन्ध्यास्वरूपं क्षणिकं दृष्टनष्टमिव नष्टं राज्ञा चिन्तितं क्व गतं सन्ध्यारागसौंदर्यं ? अनित्यता पुद्गलानां, सन्ध्याराग इव देहोऽप्यनित्यः । संसारे प्राणिनां किमपि सुखं नास्ति । यदुक्तं दुःखं स्त्रीकुक्षिमध्ये प्रथममिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रं । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः । संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ एवं वैराग्यरङ्गेण रञ्जितमना राजा चिन्तयति संसारे वैराग्योपमं सुखं नास्ति । यदुक्तं भोगे रोगभयं सुखे क्षयभवं वित्तेऽग्निभूभृद्भयम्, दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्धयम् । माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयम्, सर्वं नाम भयं भवेच्च भविनां वैराग्यमेवाभयम् ॥ एवं वैराग्यपरायण राजा स्वं पुत्रं राज्ये स्थापयित्वा स्वयं दीक्षां जग्राह । तत्कालकृतलोचो भूमौ विहरन् राजगृहोद्याने कायोत्सर्गमुद्रया तस्थौ । तस्मिन्नवसरे श्रीमान् वर्धमानस्वामी ग्रामाद् ग्रामं विहरन् चतुर्दशसहस्त्रसाधुपरिकरितः सुरनिर्मितकाञ्चनकमलोपरि चरणौ धारयन् राजगृहे गुणशैले चैत्ये समवासार्षीत्, सुरैरागत्य समवसरणं निर्मितम् । वनपालका झटिति नगरे समेत्य श्रेणिकं विज्ञपयामासुः, स्वामिन् ! भवदीयमनोवल्लभाः श्रीवर्धमानस्वामिनो वने समवसृताः । एतद्वनपालकवचनं श्रुत्वा राजाऽतीवहृष्टः कोटिप्रमितं धनं तस्मै ददौ, स्वर्णजिह्वां च ददौ । तदनन्तरं राजा महताडम्बरेण जिनवन्दनार्थं चलितः । तस्य राज्ञः सैन्यमुखे सुमुखदुर्मुखनामानौ द्वौ दण्डधरौ चलितौ तदनु ताभ्यां प्रसन्नचन्द्रो मुनिर्वने कायोत्सर्गमुद्रया स्थितो दृष्टः, सुमुखेनोक्तं- धन्योऽयं मुनिः येनैतादृशी महती राज्यलक्ष्मीस्त्यक्ता, संयमश्रीश्च गृहीता । एतस्य नाम्नापि पापं याति किं पुनः सेवनेन ? तदा दुर्मुखेनोक्तम् - अधन्योऽयं महापापोऽयं मुनिः, किमिमं पुनः पुनर्वर्णयसि ? एतेन समः कोऽपि पापभाग्नास्ति । सुमुखेन मनसि चिन्तितम् - अहो दुर्जनस्वभावोऽयं, यद्गुणेषु दोषमेव गृह्णाति । यदुक्तं - आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा, सातत्यं बत मुद्रितेव जतुना ‘‘પોતનપુરમાં પ્રસન્નચન્દ્ર રાજા હતા. વૈરાગ્ય પામી પુત્રને રાજ્યે બેસાડી તેમણે દીક્ષા લીધી. રાજગૃહીના ઉદ્યાનમાં કાઉસ્સગ્ગમાં રહ્યા. શ્રીવીરપ્રભુ પધાર્યા. શ્રેણિક રાજા વંદન માટે ચાલ્યા. તેમની સેનામાં આગળ સુમુખ-દુર્મુખ નામના બે દૂત ચાલતા હતા. રસ્તામાં મુનિને જોઈ સુમુખ બોલ્યો ‘આ મુનિને ધન્યવાદ છે જેણે આવી રાજલક્ષ્મી -
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy