________________
२८६
एकविंशतितमं वृत्तम् । सङ्घसमवायः कृतः । सर्वेणापि च सङ्ग्रेन देवताह्वानार्थं कायोत्सर्गो विहितः । ततो भद्रिका काचिद् देवता समागता । सा वदति-संदिशत, किं करोमि ? ततः सङ्घः प्रस्तुतमर्थं जानन्नपि सर्वजनप्रत्ययनिमित्तं ब्रवीति - महाविदेहे गत्वा तीर्थकरमापृच्छस्व - किं दुर्बलिकापुष्यमित्रप्रमुखः सङ्घो यद् भणति तत् सत्यम्, उत यद् गोष्ठामाहिलो वदति ? ततस्तया प्रोक्तम् - मम महाविदेहे गमनागमनं कुर्वत्याः प्रत्यूहप्रतिघातार्थमनुग्रहं कृत्वा कायोत्सर्गं कुरुत, येनाहं गच्छामि ततस्तथैव कृतं सर्छन । गता च सा । पृष्ट्वा च भगवन्तं प्रत्यागता कथयति यदुत - तीर्थकरः समादिशति - 'दुर्बलिकापुष्यमित्रपुरस्सरः सङ्घः सम्यग्वादी, गोष्ठामाहिलस्तु मिथ्यावादी, सप्तमश्चायं निह्नवः' इति । तदेतत् श्रुत्वा गोष्ठामाहिलो ब्रवीति - नन्वल्पद्धिकेयं वराकी, का नामैतस्याः कडपूतनायास्तीर्थकरान्तिके गमनशक्तिः ? इति । एवमपि यावदसौ न किञ्चिद् मन्यते तावत् सङ्घनोद्धाव्य बाह्यः कृतः । अनालोचितप्रतिक्रान्तश्च कालं गतः । ॥२०॥
अवतरणिका - एवं सयुक्तिकं गुरौ खेदकरणनिषेधमुपदिश्याऽधुना गुरुविषयकाः कुविकल्पा न चिन्तनीया इत्युपदिशति - मूलम् - मा चिंतह पुण एयं, किं पि विसेसं न पेच्छिमो अम्हे ।
रत्ता मूढा गुरुणो, असमत्था एत्थ किं कुणिमो ॥२१॥ छाया - मा चिन्तयत पुनः एतद्, कमपि विशेषं न प्रेक्षामहे वयम् ।
रक्ताः मूढाः गुरवः, असमर्थाः अत्र किं कुर्मः ॥२१॥ दण्डान्वयः - पुण एवं मा चिंतह -अम्हे किं पि विसेसं न पेच्छिमो, गुरुणो
સમજાવે છે. છતાં નથી માનતા. એટલે સંઘે કાઉસગ્ગ કરી દેવતાને બોલાવી. મહાવિદેહમાં પ્રભુને પૂછાવ્યું. દેવતાએ જઈ પ્રભુને પૂછ્યું. પછી પ્રભુનો જવાબ સંઘને કહ્યો - દુર્બલિકાપુષ્યમિત્ર સાચા છે. ગોષ્ઠામાહિલ ખોટા છે.” આ સાંભળવા છતાં ગોષ્ઠામાહિલ માન્યા નહીં. એટલે સંઘે તેમને સંઘ બહાર કર્યા. તે આલોચના - પ્રાયશ્ચિત્ત કર્યા વિના भा.” (२०)
અવતરણિકા – આમ યુક્તિપૂર્વક ગુરુ ઉપર ખેદ ન કરવાનો ઉપદેશ આપીને હવે ગુરુ સંબંધી ખરાબ વિકલ્પ ન કરવાનો ઉપદેશ આપે છે -
શબ્દાર્થ - વળી આવો વિચાર ન કરવો કે અમને કંઈ ગુણ નથી દેખાતો, ગુરુ