SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९४ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् हास्तिकम्, आपूपिकम्, कैदारिकम् ॥१४॥ धेनोरनमः ।६।२।१५॥ धेनोरनञ्पूर्वात् समूहे 'इकण्' स्यात् । धेनुकम् । अनत्र इति किम् ? आधैनवम् ।।१५॥ ब्राह्मण-माणव-वाडवाद् यः ।६।२।१६॥ एभ्यः समूहे 'यः' स्यात् । ब्राह्मण्यम्, माणव्यम्, वाडव्यम् ॥१६॥ गणिकाया ण्यः ।६।२।१७॥ अस्मात् समूहे ‘ण्यः' स्यात् । गाणिक्यम् ॥१७॥ केशाद् वा ।६।२।१८॥ केशात् समूहे ‘ण्यो वा' स्यात् । कैश्यम्, कैशिकम् ॥१८॥ वाऽश्वादीयः ।६।२।१९॥ अश्वात् समूहे 'ईयो वा' स्यात् । अश्वीयम्, आश्वम् ॥१९॥ पर्वा डण ।६२।२०॥ पोः समूह 'ड्वण' स्यात् । पार्श्वम् ॥२०॥ ईनोऽह्नः क्रतो ।६।२।२१॥ अह्नः समूहे क्रता-'वीनः' स्यात् । अहीनः क्रतुः, आमन्यत् ॥२१॥ पृष्ठाद्यः ।६।२।२२॥ पृष्ठात् समूहे क्रती 'यः' स्यात् । पृष्ठ्यः क्रतुः ॥२२॥ चरणाद् धर्मवत् ६२॥२३॥ कठादेधर्म इव 'समूहे प्रत्ययाः स्युः । यथा कठानां धर्मः काठकं, तथा समूहेऽपि ॥२३॥ गो-रथ-वातात् त्रल्-कट्यलूलम् ।६।२।२४॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy