SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् राधानुराधीयमहः ॥७॥ श्रवणा-ऽश्वत्थानाम्न्यः ।६।२।८॥ चन्द्रयुक्तार्थात् श्रवणा-ऽश्वत्थाच टान्ताद् युक्ते कालेऽर्थे संज्ञायाम्-'अः' स्यात् । श्रवणा रात्रिः, अश्वत्या पौर्णमासी । नाम्नीति किम् ? श्रावणमहः । आश्वत्थमहः ॥८॥ षष्ठ्याः समूहे ।६।२।९॥ षष्ठ्यन्तात् समूहेऽर्थे 'यथाविहितं प्रत्ययाः' स्युः । चाषम्, स्त्रैणम् ॥९॥ मिक्षाऽऽदेः ।६।२।१०॥ एभ्यः षष्ठ्यन्तेभ्यः समूहे 'यथाविहितं प्रत्ययः' स्यात् । भैक्षम्, गाभिणम् ॥१०॥ क्षुद्रकमालवात् सेनानाम्नि ।६।२।११॥ अस्मात् षष्ठ्यन्तात् समूहे-'ऽण्' स्यात्, सेनासंज्ञायाम् । क्षौद्रकमालवी सेना ॥११॥ गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य राजपुत्रादकञ् ।६।२।१२॥ गोत्रप्रत्ययान्तादुक्षादेश्च समूहे-'ऽकञ्' स्यात् । गार्गकम्, औक्षकम्, वात्सकम्, औष्टकम्, वार्द्धकम्, आजकम्, औरप्रकम्, मानुष्यकम्, राजकम्, राजन्यकम्, राजपुत्रकम् ॥१२॥ केदाराण्ण्यश्च ।६।२।१३॥ केदारात् समूह 'ग्योऽकञ् च' स्यात् । कैदार्यम्, केदारकम् ॥१३॥ कवचि-हस्त्यचित्ताचेकण् ।६।२।१४॥ कवचि-हस्तिभ्यामचित्तात् केदाराच समूहे 'इकण्' स्यात् । कावचिकम्,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy