SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् यशांस्यहार्षीः प्रथमं समन्तात्, क्षणादभासीरय राजधानीम् ॥२१॥ - ० - [द्वितीयः पादः] रागाहो रक्ते ।६।२।१॥ रज्यते येन कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे 'यथाविहितं प्रत्ययः' स्यात् । कौसुम्भं वासः ॥१॥ लाक्षा-रोचनादिकण ६२२॥ आभ्यां टान्ताभ्यां रक्तमित्यर्थे 'इकण्' स्यात् । लाक्षिकम्, रौचनिकम् ॥२॥ शकल-कदमाद् वा ॥६॥२३॥ आभ्यां टान्ताभ्यां रक्तमित्यर्थे 'इकण वा' स्यात् । शाकलिकम्, शाकलम्; कादमिकम्, कादमम् ॥३॥ नील-पीतादकम् ।६।२।४॥ आभ्यां टान्ताभ्यां रक्तमित्यर्थे यथासङ्ग्यम्-'अ-को' स्याताम् । नीलम्, पीतकम् ॥४॥ उदितगुरोर्भाद् युक्तेऽन्दे ।६।२।५॥ उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्यातृतीयान्ताद् युक्तेऽब्दे 'यथाविहितं प्रत्ययः' स्यात् । पौषं वर्षम् ॥५॥ चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्ते ।६।२६॥ चन्द्रेण युक्तं यत्रक्षत्रं तदर्याट्टान्ताद् युक्ते कालेऽर्थे 'यथाविहितं प्रत्ययः' स्यात्, अप्रयुक्ते तु कालार्थे 'लुप्' स्यात् । पौषमहः, अद्य पुष्यः ॥६॥ द्वन्द्वादीयः ।६।२७॥ चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वाट्टान्ताद् युक्ते कालेऽर्थे 'ईयः' स्यात् ।
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy