________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यः समूहे ययासत्य-'मेते' स्युः । गोत्रा, रथकट्या, वातूलः ॥२४॥
पाशाऽऽदेश्व ल्यः ।६।२।२५॥ अस्माद् गवादेश्च समूहे 'ल्यः' स्यात् । पाश्या, तृण्या, गव्या, रथ्या, वात्या ॥२५॥
श्वादिभ्योऽज ।६।२॥२६॥ एभ्यः समूहे-'ऽञ्' स्यात् । शौवम्, आह्नम् ॥२६॥
खलाऽऽदिभ्यो लिन् ।६।२।२७॥ एभ्यः समूहे 'लिन्' स्यात् । खलिनी, ऊकिनी ॥२७॥
ग्राम-जन-बन्धु-गज-सहायात् तत् ।६२।२८॥ एभ्यः समूहे 'तर' स्यात् । ग्रामता, जनता, बन्धुता, गजता, सहायता ॥२८॥
पुरुषात् कृत-हित-वध-विकारे चैयञ् ।६।२।२९॥ एषु समूहे च पुरुषा-'देय' स्यात् । पौरुषेयो ग्रन्थः, पौरुषेयं पथ्यम्, पौरुषेयो वधो विकारो वा, पौरुषेयः समूहः ॥२९॥
विकारे ६३०॥ षष्ठ्यन्ताद् विकारे 'यथाविहितं प्रत्ययाः' स्युः । आश्मनः, आश्मः ॥३०॥
प्राण्यौषधि-वृक्षेभ्योऽवयवे च ६॥२॥३१॥ एभ्यः षष्ठयन्तेभ्यो विकारेऽवयवे च 'यथाविहितं प्रत्ययाः' स्युः । कापोतं सक्थि मांसं वा, दौन काण्डं भस्म वा, एवं- बैल्वम् ॥३१॥
तालाद् धनुषि ।।२।३२॥ तालाद् धनुषि विकारे-'ऽण् स्यात् । तालं धनुः । धनुषीति किम् ? तालमयं काण्डम् ॥३२॥
त्रपु-जतोः षोन्तश्च ।६।३३॥ आभ्यां विकारे-'ऽण् स्यात्, षान्तः । त्रापुषम, जातुषम् ॥३३॥