________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
शम्या लः ।६२।३४॥ शम्या विकारेऽवयवे चा-'ऽण' स्यात्, तद्योगे 'लान्तः' | शामीलं भस्म शामीली शाखा ॥३४॥
पयो-द्रोर्यः ।६२॥३५॥ आभ्यां विकारे 'यः' स्यात् । पयस्यम्, द्रव्यम् ।।३५।।
उष्ट्रादकञ् ।६।२॥३६॥ उष्ट्राद् विकारेऽवयवे चा-'ऽकञ्' स्यात् । औष्ट्रकं मांसमझं वा ॥३६॥
उमोर्णाद् वा ।६।२।३७॥ आभ्यां विकारेऽवयवे चा -ऽकञ् वा' स्यात् । औमकम्, औमम् । और्णकम् और्णः कम्बल: ॥३७॥
एण्या एयञ् ।६।२।३८॥ एण्या विकारेऽवयवे चैयञ् स्यात् । ऐणेयं मांसमङ्गं वा ॥३८॥
कौशेयम् ।।२।३९॥ कोशाद् विकारे 'एयञ्' स्यात् । कौशेयं वस्त्रं सूत्रं वा ॥३९॥
परशव्याद् यलुक् च ।६।२।४०॥ अस्माद् विकारे-'ऽण्' स्यात्, 'यस्य लुक् च' । पारशवम् ॥४०॥
कंसीयाज्यः ।६।२।४१॥ अस्माद् विकारे 'ज्यः' स्यात्, तघोगे 'यलुक् च' । कांस्यम् ।।४१॥
हेमार्थान्माने ।६।२।४२॥ अस्मान्माने विकारे-'ऽण् स्यात् । हाटको निष्कः । मान इति किम् हाटकमयी यष्टिः ॥४२॥
द्रोर्वयः ।६।२।४३॥