________________
श्रीसिदहेमचन्द्रशन्दानुशासनम्
द्रोर्माने विकारे 'वयः' स्यात् । द्रुवयं मानम् ॥४३।।
मानात् क्रीतवत् ।६।२।४४॥ मानं- सङ्ख्यादि, तदर्याद् "विकारे क्रीते इव प्रत्ययाः' स्युः । यथा शतेन क्रीतः शत्यः, शतिको वा, तथा तद्विकारेऽपि ॥४४॥
हेमाऽऽदिभ्योऽञ् ।६।२।४५॥ एभ्यो यथायोगं विकारेऽवयवे चा-'sञ्' स्यात् । हैमी यष्टिः, राजतः ॥४५॥
__ अभक्ष्या-ऽऽच्छादने वा मयट् ।६।२।४६॥ षष्ठ्यन्ताद् मक्ष्याऽऽच्छादनवर्जे यथायोगं विकारेऽवयवे च 'मयड् वा' स्यात् । भस्ममयम, भास्मनम् । अभक्ष्या-5ऽच्छादन इति किम् ? मौद्रः सूपः, कार्यासः पटः ॥४६॥
शर-दर्भ-कूदी-तृण-सोम-वल्वजात् ।६।२।४७॥ एभ्योऽभक्ष्या-ऽऽछादने विकारेऽवयवे च नित्यं मयट्' स्यात् । शरमयम्, दर्भमयम्, कूदीमयम्, तृणमयम्, सोममयम्, वल्वजमयम् ॥४७॥
एकस्वरात् ।६।२।४८॥ अस्माद् भक्ष्या-5ऽच्छादनवर्जे विकारेऽवयवे च नित्यं मयट्' स्यात् । वाङ्मयम् ॥४८॥
दोरप्राणिनः ।६।२।४९॥ अप्राण्याद् दोरभक्ष्या-ऽऽच्छादने विकारेऽवयवे च 'मयट्' स्यात् । आम्रमयम् । अप्राणिन इति किम् ? चाषम्, चाषमयम् ॥४९॥
गोः पुरीषे ।६।२।५०॥ गोः पुरीषेऽर्थे 'मयट्' स्यात् । गोमयम्, पयस्तु गव्यम् ॥५०॥
बीहेः पुरोडाशे ।६।२।५१॥