________________
९८
श्रीसिद्धहेमचन्द्रशन्दानुशासनम्
व्रीहेः पुरोडाशे विकारे 'नित्यं मयट् स्यात् । व्रीहिमयः पुरोडाशः । पुरोडाश इति किम् ? ढह ओदनः, ब्रैहं भस्म ॥५१॥
तिल-यवादनाम्नि ।६२।५२॥ आभ्यां विकारेऽवयवे चाऽनाम्नि 'मयट्' स्यात् । तिलमयम्, यवमयम् । अनाम्नीति किम् ? तैलम्, यावः ॥५२॥
पिष्टात् ।६।२।५३॥ पिष्टाद् विकारेऽनाम्नि 'मयट्' स्यात् । पिष्टमयम् ॥५३।।
नाम्नि कः ।६।२।५४॥ पिषाद् विकारे नाम्नि 'कः' स्यात् । पिष्टिका ॥५४॥
योगोदोहादीनञ् हियशधास्य ।६।२।५५॥ अस्माद् विकारे नाम्नि ईन' स्यात्, तद्योगे च प्रकृते-'हियगुः' । हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव- ह्यौगोदोहं तक्रम् ॥५५॥
अपो यञ् वा ।६।२।५६॥ अपो विकारे 'यञ् वा' स्यात् । आप्यम्, अम्मयम् ॥५६॥
लुप् बहुलं पुष्प-मूले ।६।२।५७॥ विकारेऽवयवार्यस्य पुष्ये मूले चार्ये 'प्रत्ययस्य बहुलं लुप्' स्यात् । मल्लिका पुष्पम्, विदारी मूलम् । बहुलमिति किम् ? वारणं पुष्पम्, ऐरण्डं मूलम् ।।५७॥
फले ६२५८॥ विकारेऽवयवे चार्थे 'प्रत्ययस्य लुप्' स्यात् । आमलकम् ॥५८॥
पक्षाऽऽदेरण् ।६।२।५९॥ एभ्यो विकारेऽवयवे वा फले-'ऽण् स्यात् । पाक्षम्, आश्वत्थम् ॥५९।।
जम्बा वा ६२।६०॥