SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ९९ जम्ब्वा विकारेऽवयवे वा फले- 'ऽण् वा' स्यात् । जाम्बवम्, जम्बु, जम्बू: ॥६०॥ न द्विदुवय-गोमय-फलात् | ६ |२| ६१ ॥ द्रुवय-गोमयी फलार्थं च मुक्त्वाऽन्यस्माद् विकारावयवयो- 'र्द्धिः प्रत्ययो न' स्यात् । कापोतस्य विकारोऽवयवो वेति मयट् न स्यात् । अद्रुवयेत्यादीति किम् ? द्रौवयं खण्डम्, गौमयं भस्म, कापित्यो रसः ||६१ || पितृ-मातुर्व्य-डुलं भ्रातरि |६|२२६२॥ आभ्यां भ्रातर्यर्थे यथासङ्ख्यं 'व्य- डुली' स्याताम् । पितृव्यः मातुलः ||६२|| पित्रोर्डामहट् |६|२|६३॥ पितृमातृभ्यां माता- पित्रो - 'महद्' स्यात् । पितामहः, पितामही; मातामहः, मातामही ॥६३॥ अवेर्दुग्धे सोट-दूस - परीसम् | ६ | २|६४ ॥ अवेर्दुग्धेऽर्थे 'एते' स्युः । अविसोढम्, अविदूसम्, अविमरीसम् ||६४|| राष्ट्रेऽनङ्गाऽऽदिभ्यः ॥६।२२६५ ॥ अङ्गादिवर्जात् षष्ठ्यन्ताद् राष्ट्रेऽर्थे ऽण् स्यात् । शैवम् । अङ्गादिवर्जनं किम् ? अङ्गानां वङ्गानां वा राष्ट्रमिति वाक्यमेव ॥ ६५ ॥ राजन्याऽऽदिभ्योऽञ् ॥६।२२६६॥ एभ्यो राष्ट्रे-'ऽकञ्' स्यात् । राजन्यकम्, दैवयातवकम् ॥६६॥ बसातेर्वा |६|२|६७॥ अस्माद् राष्ट्रे-'ऽकञ् वा' स्यात् । वासातकम्, वासातं राष्ट्रम् ॥६७॥ भौरिक्यैषुकायदिर्विध-भक्तम् |६|२२६८ ॥ भौरिक्यादे राष्ट्रे 'विद्यः' ऐषुकायदिश्च 'भक्तः' स्यात् । भौरिकिविधम्, भौलिकिविधम्; ऐषुकारिभक्तम्, सारस्यायनभक्तम् ॥६८॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy