SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०० श्रीसिद्हेमचन्द्रशब्दानुशासनम् निवासा-ऽदूरभव इति देशे नाम्नि ६२।६९॥ षष्ठ्यन्तानिवासा-5दूरभवयो-'यथाविहितं प्रत्ययः' स्यात्, तदन्तं चेद् रूढम् देशनाम । शैवम्, वैदिशं पुरम् ॥६९॥ तदत्राऽस्ति ।६।२७०॥ तदिति- प्रथमान्ताद, अत्रेति- सप्तम्यर्थे 'यथाविहितं प्रत्ययः' स्यात्, प्रथमान्तं चेदस्तीति प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ॥७०॥ तेन निवृत्ते च ।६।२।७१॥ तेनेति- तृतीयान्तात् निवृत्तेऽर्थे 'यथाविहितं प्रत्ययः' स्यात्, देशनाम्नि । कौशाम्बी ॥७॥ नयां मतुः ।६।२।७२॥ निवासाद्यर्थचतुष्के यथायोगं 'मतुः' स्यात्, नद्यां देशनाम्नि । उदुम्बरावती ॥७२॥ मध्वादेः ।६।२।७३॥ एभ्यश्चातुरर्थिको देशनाम्नि ‘मतुः' स्यात् । मधुमान, विसवान् ॥७३॥ नड-कुमुद-वेतस-महिषाहित् ।६।२७४॥ एभ्यो ‘डित् मतुश्चातुरथिको' देशनाम्नि स्यात् । नड्वान्, कुमुद्वान्, वेतस्वान्, महिष्मान् ७४॥ नड-शादाद् वलः ६२७५॥ आभ्यां चातुरर्थिको 'डिद् वलो' देशनाम्नि स्यात् । नड्वलम्, शाद्वलम् ॥७५।। शिखायाः ६२७६॥ अस्मात् चातुरर्थिको देशनाम्नि 'वल:' स्यात् । शिखावलं पुरम् ।।७६॥ शिरीषादिक-कणौ ।६।२७७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy