________________
श्रीसिदहेमचन्द्रशब्दानुशासनम्
१०१ अस्मात् चातुरर्थिका-'विक-कणी' स्याताम् । शिरीषिकः, शैरीषकः ।।७।।
शकराया इकणीया-ऽण च ।६।२७८॥ अस्माच्चातुरर्थिका देशनाम्नि 'इकणीया-ऽण्' चकारात् ‘इक-कण्' इत्येते स्युः । शारिकः, शर्करीयः, शार्करः, शरिकः, शार्करकः ॥७८||
रोऽश्मादेः ।६।२७९॥ चातुरर्थिको देशनाम्नि 'रः' स्यात् । अश्मरः, यूषरः ॥७९॥
प्रेक्षादेरिन् ।६।२।८०॥ चातुरर्थिको देशनाम्नि 'इन्' स्यात् । प्रेक्षी, फलकी ।।८०॥
तृणादेः सल् ६।२।८१॥ चातुरर्थिको देशनाम्नि ‘सल्' स्यात् । तृणसा, नदसा ॥८॥
काशादेरिलः ।६२।८२॥ अस्माचातुरर्थिको देशनाम्नि 'इलः' स्यात् । काशिलम्, वाशिलम् ॥८२॥
अरीहणादेरकण ।६।२।८३॥ चातुरर्थिको देशनाम्नि अकण्' स्यात् । आरीहणकम्, खाण्डवकम् ।।८३॥
सुपन्थ्यादेयः ।६।२।८४॥ चातुरर्थिको देशनाम्नि 'ज्यः' स्यात् । सौपन्थ्यम्, सौवन्थ्यम् ॥८४।।
सुतङ्गमादेरिन् ।६।२।८५॥ चातुरर्थिको देशनाम्नि 'इज्' स्यात् । सौतङ्गमिः, मौनिवित्तिः ॥८५॥
बलादेर्यः ।६।२।८६॥ चातुरर्थिको देशनाम्नि 'यः' स्यात् । बल्यम्, पुल्यम् ॥८६॥
अहरादिभ्योऽञ्।६।२।८७॥ चातुरथिको देशनाम्नि 'अञ्' स्यात् । आह्नम्, लौमम् ॥८७॥