________________
१०२
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
सख्यादेरेयण् ।६२१८८॥ चातुरर्थिको देशनाम्नि ‘एयण' स्यात् । साखेयः, साखिदत्तेयः ।।८८॥
पन्थ्यादेरायनण् ।६।२।८९॥ चातुरर्थिको देशनाम्नि 'आयनण्' स्यात् । पान्थायनः, पाक्षायणः ॥८९।।
कणदिरायनिञ् ।६२।९०॥ चातुरर्थिको देशनाम्नि 'आयनिग्' स्यात् । कार्णायनिः, वासिष्ठायनिः ॥१०॥
उत्कारादेरीयः ।६२९१॥ चातुरर्थिको देशनाम्नि 'ईयः' स्यात् । उत्करीयः, सकरीयः ॥९॥
नडादेः कीयः ।६।२।९२॥ चातुरर्थिको देशनाम्नि 'कीयः' स्यात् । नडकीयः, पक्षकीयः ॥१२॥
कृशाश्वादेरीयण ।६।२।९३॥ चातुरर्थिको देशनाम्नि 'ईयण' स्यात् । काश्विीयः, आरिष्टीयः ॥९॥
ऋश्यादेः कः ।६।२।९४॥ चातुरर्थिको देशनाम्नि 'कः' स्यात् । ऋश्यकः, न्यग्रोधकः ॥९४॥
वराहादेः कण् ।६।२।९५॥ चातुरर्थिको देशनाम्नि 'कण' स्यात् । वाराहकम, पालाशकम् ॥९५॥
कुमुदादेरिकः ।६।२।९६॥ चातुरर्थिको देशनाम्नि 'इकः' स्यात् । कुमुदिकम्, इक्कटिकम् ॥१६॥
अश्वत्थादेरिकण ।६।२।९७॥ चातुरथिको देशनाम्नि 'इकण्' स्यात् । आश्वत्यिकम्, कौमुदिकम् ।।९।।
साऽस्य पौर्णमासी ।६२।९८॥