________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१०३
सेति- प्रथमान्तादस्येति- षड्यर्थे 'यथाविहितं नाम्नि प्रत्ययः' स्यात, प्रथमान्तं चेत् पौर्णमासी । पौषो मासोऽर्द्धमासो वा ॥९८||
आग्रहायण्यश्वत्यादिकण ।६।२।९९॥ आभ्यां प्रथमान्ताभ्यां षड्यर्थे 'इकण्' स्यात्, तच्चेत् पौर्णमासी नाम्नि । आग्रहायणिको मासोऽर्द्धमासो वा, एवमाश्वत्यिकः ॥९९।।
चैत्री-कार्तिकी-फाल्गुनी-प्रवणाद् वा ।६।२।१००॥ एभ्यः साऽस्य पौर्णमासीतिविषये नाम्नि 'इकण वा स्यात् । चैत्रिकः, चैत्रो मासोऽर्द्धमासो वा; एवं- कार्तिकिकः, कार्तिकः; फाल्गुनिकः, फाल्गुनः; श्रावणिकः, श्रावणः ॥१०॥
देवता ।।२।१०१॥ देवतार्यात् प्रथमान्तात् षष्ट्यर्थे 'यथाविहितं प्रत्ययः' स्यात् । जैनः, आग्नेयः, आदित्यः ॥१०॥
पैङ्गाक्षीपुत्रादेरीयः ।६।२।१०२॥ एभ्यः साऽस्य देवतेतिविषये 'ईयः' स्यात् । पैनाक्षीपुत्रीयम, तार्णविन्दवीयं हविः ॥१०२॥
शुक्रादियः ।६।२।१०३॥ शुक्रात् साऽस्य देवतेतिविषये 'इयः' स्यात् । शुक्रियं हविः ॥१०३॥
शतरुद्रात् तौ १६२१०४॥ अस्मात् साऽस्य देवतेतिविषये 'ईय इयश्च' स्यात् । शतरुद्रीयम्, शतरुद्रियम् ॥१०४॥
अपोनपादपानपातस्तृचातः ।६२।१०५॥ आभ्यां साऽस्य देवतेतिविषये 'ती' स्याताम्, तद्योगे चा-'ऽऽतस्तृच' ।