________________
१०४
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अपोनप्त्रीयम्, अपोनत्रियम्; अपानवीयम्, अपानत्रियम् ॥१०५॥
महेन्द्राद् वा ।६।२।१०६॥ अस्मात् साऽस्य देवतेतिविषये 'तौ वा' स्याताम् । महेन्द्रीयम्, महेन्द्रियम्, माहेन्द्रं वा हविः ॥१०६॥
क-सोमायण ।६।२।१०७॥ आभ्यां साऽस्य देवतेतिविषये 'ट्यण' स्यात् । कायम, सौम्यं हविः ।।१०७।। द्यावापृथिवी-शुनासीरा-ऽग्नीषोम-मरुत्वद्-वास्तोष्पति
गृहमेधादीय-यौ ।६।२।१०८॥ एभ्यः साऽस्य देवतेतिविषये 'ईय-यो' स्याताम् । द्यावापृथिवीयम्, द्यावापृथिव्यम्; शुनासीरीयम्, शुनासीर्यम्; अग्नीषोमीयम्, अग्नीषोम्यम्; मरुत्वतीयम्, मरुत्वत्यम्; वास्तोष्पतीयम्, वास्तोष्पत्यम्, गृहमेधीयम्, गृहमेध्यम् ॥१०८।।
वाप्यतु-पित्रुषसो यः ।६।२।१०९॥ एभ्यः साऽस्य देवतेतिविषये 'यः' स्यात् । वायव्यम्, ऋतव्यम्, पित्र्यम्, उषस्यम् ।।१०९॥
महाराज-प्रोष्ठपदादिकण ।६।२।११०॥ आभ्यां साऽस्य देवतेतिविषये 'इकण्' स्यात् । माहाराजिकः, प्रौष्ठपदिकः ॥११०॥
कालाद् भववत् ।६।२।१११॥ कालविशेषार्थेभ्यो 'यथा भवे प्रत्यया वक्ष्यन्ते, तथा साऽस्य देवतेतिविषयेऽपि' स्युः । यथा मासे भवं मासिकम, प्रावृषि प्रावृषेण्यम्, तथा मासप्रावृदेवताकमपि ।।१११॥
आदेः छन्दसः प्रगाथे ।६।२।११२॥