________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१०५
प्रथमान्तादादेः छन्दसोऽस्येति षष्ठ्यर्थे 'यथाविहितं प्रत्ययः' स्यात्, प्रगाथे वाच्ये । पाङ्गः प्रगाथः । आदेरिति किम् ? अनुष्टुब् मध्यमस्य प्रगाथस्य ।।११२॥
योद्धृ-प्रयोजनाद् युद्धे ।६।२।११३॥ प्रथमान्ताद् योद्धर्थात् प्रयोजनार्थाच्च षष्ट्यर्थे युद्धे 'यथाविहितं प्रत्ययः' स्यात् । वैद्याधरं युद्धम्, सौभद्रं युद्धम् ॥११३॥
भावधजोऽस्यां णः ।६।२।११४॥ भावे पजन्तात् प्रथमान्तादस्यामित्यर्ये ‘णः' स्यात् । प्रापाता तिथिः । भावेति किम् ? प्राकारोऽस्याम् ॥११४॥
श्यैनम्पाता-तैलम्पाता ।६।२।११५॥ श्येन-तिलयोर्भावे घान्ते पाते परे 'मोऽन्तः' स्यात् । श्यैनम्पाता, तैलम्पाता तिथिः क्रियाभूमिः क्रीडा वा ॥११५॥
प्रहरणात क्रीडायां णः ।६।२।११६॥ प्रहरणार्थात् प्रथमान्तादस्यामिति क्रीडायां 'णः' स्यात् । दाण्डा क्रीडा ।। क्रीडायामिति किम् ? खड्गः प्रहरणमस्यां सेनायाम् ||११६॥
तद् वेत्त्यधीते ।६।२।११७॥ तदिति- द्वितीयान्ताद् वेत्ति अधीते वा इत्यर्थयो-'यथाविहितं प्रत्ययः' स्यात् । मौहूर्तः, छान्दसः ॥११७॥
न्यायादेरिकण् ।६।२।११८॥ एभ्यो वेत्त्यधीते वेत्यर्थे 'इकण्' स्यात् । नैयायिकः, नैयासिकः ॥११८॥ पद-कल्प-लक्षणान्त-क्रत्वाख्याना-ऽऽख्यायिकात्
।६।२।११९॥