SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पदकल्पलक्षणान्तेभ्यः क्रत्वादेश्च वेत्त्यधीते वेत्यर्थे 'इकण' स्यात् । पौर्वपदिकः, मातृकल्पिकः, गौलक्षणिकः, आग्निष्टोमिकः, यावक्रीतिकः, वासवदत्तिकः ||११९॥ १०६ अकल्पात् सूत्रात् |६|२|१२०॥ कल्पवर्जात् परो यः सूत्रस्तदन्ताद् वेत्त्यधीते वेत्यर्थे 'इकण्' स्यात् । वार्त्तिसूत्रिकः । अकल्पादिति किम् ? सौत्रः काल्पसौत्रः || १२०|| अधर्म-क्षत्र - त्रि-संसर्गाऽङ्गाद् विद्यायाः | ६ |२| १२१ || " धर्मादिवर्जात् परो यो विद्याशब्दस्तदन्ताद् वेत्त्यधीते वेत्यर्थे 'इकण्' स्यात् । वायसविधिकः । अधमदिरिति किम् ? वैद्यः, धार्मविद्यः, क्षात्रविद्यः, त्रैविद्यः, सांसर्गविद्यः, आङ्गविद्यः ॥ १२१ ॥ याज्ञिकौकुत्थिक- लौकायितिकम् | ६ |२| १२२ ॥ एते वेत्त्यधीते वेत्यर्थे 'इकणन्ता' निपात्यन्ते । याज्ञिकः, अत्यिकः, लौकायितिकः ॥ १२२॥ अनुब्राह्मणादिन् । ६।२।१२३॥ अस्माद् वेत्त्यधीते वेत्यर्थे 'इन्' स्यात् । अनुब्राह्मणी ॥ १२३॥ शत-षष्टेः पथ इकटू |६|२|१२४ ॥ आभ्यां परो यः पन्यास्तदन्ताद् वेत्त्यधीते वेत्यर्थे 'इकट्' स्यात् । शतपथिकी, षष्टिपथिकः ||१२४|| पदोत्तरपदेभ्य इकः | ६ |२|१२५ ॥ पदशब्द उत्तरपदं यस्य तस्मात् पदात्, पदोत्तरपदाच्च वेत्त्यधीते वेत्यर्थे 'इकः' स्यात् । पूर्वपदिकः, पदिकः, पदोत्तरपदिकः ॥१२५॥ पद-क्रम - शिक्षा-मीमांसा - साम्नोऽकः | ६ |२| १२६ ॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy